तदागमनकार्यं नः शृणु कार्यं तवैव तत् ।
श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ॥

अन्वयः AI नः तत् आगमनकार्यम् शृणु। तत् तव एव कार्यम्। तु श्रेयसाम् उपदेशात् वयम् अत्र अंशभागिनः (स्मः)।
सञ्जीविनीटीका (मल्लिनाथः) तदिति । तत्तस्मान्नोऽस्माकमागमनस्य कार्यं प्रयोजनं श्रृणु । तत्कार्यं च तवैव, न त्वस्माकमित्यवधारणार्थ एवकारः । वयं तु श्रेयसामुपदेशादत्र कार्येंऽशभागिनः । त्वमेवात्र फलभाग्वयमुपदेष्टार इति भावः
Summary AI Now, listen to the purpose of our arrival. Though the task is yours alone, by offering auspicious counsel, we too become participants in its merit.
सारांश AI हमारे आने का प्रयोजन सुनें, जो वास्तव में आपका ही कार्य है; हम तो केवल कल्याणकारी मार्ग का उपदेश देने के कारण इसमें सहभागी बन रहे हैं।
पदच्छेदः AI
तत्तद् (२.१) that
आगमनकार्यम्आगमनकार्य (२.१) purpose of arrival
नःअस्मद् (६.३) our
शृणुशृणु (√श्रु कर्तरि लोट् (परस्मै.) म.पु. एक.) listen to
कार्यम्कार्य (१.१) task
तवयुष्मद् (६.१) your
एवएव alone
तत्तद् (१.१) that
श्रेयसाम्श्रेयस् (६.३) of auspicious matters
उपदेशात्उपदेश (५.१) from giving advice
तुतु but
वयम्अस्मद् (१.३) we
अत्रअत्र in this
अंशभागिनःअंशभागिन् (१.३) are sharers
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा का र्यं नः
शृ णु का र्यं वै तत्
श्रे सा मु दे शा त्तु
त्रां भा गि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.