यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया ।
उच्चैर्हिरण्मयं शृङ्गं सुमेरोर्वितथीकृतम् ॥

अन्वयः AI यज्ञभागभुजाम् मध्ये पदम् आतस्थुषा त्वया सुमेरोः उच्चैः हिरण्मयम् शृङ्गम् वितथीकृतम्।
सञ्जीविनीटीका (मल्लिनाथः) यज्ञेति । यज्ञभागभुजामिन्द्रादीनां मध्ये पदमातस्थुषा निहितवता त्वयोच्चैरुन्नतं हिरण्यस्य विकारो हिण्मयम् । `दाण्डिनायनहास्तिनायने-` त्यादिनिपातनात्साधु । सुमेरोः श्रृङ्गं शिखरम् । प्राधान्यं च ध्वन्यते । `श्रृङ्गं प्राधान्यसान्वोश्च` इत्यमरः । वितथीकृतं व्यर्थीकृतम् । तस्य यज्ञभागाभावादिति भावः । अस्य तु तत्सद्भावे प्रमाणम्- `हिमवतो हस्ती` ति श्रुतिः
Summary AI By taking your position among the gods, the partakers of sacrificial offerings, you have rendered insignificant the lofty, golden peak of Mount Sumeru.
सारांश AI यज्ञ का भाग ग्रहण करने वाले देवताओं के बीच अपना स्थान बनाने वाले आपके द्वारा सुमेरु पर्वत के ऊँचे स्वर्ण-शिखर की महिमा को भी फीका कर दिया गया है।
पदच्छेदः AI
यज्ञभागभुजाम्यज्ञभागभुज् (६.३) of the enjoyers of sacrificial shares (gods)
मध्येमध्य (७.१) in the midst of
पदम्पद (२.१) a position
आतस्थुषाआतस्थिवस् (आ√स्था+क्वसु, ३.१) by you who have taken
त्वयायुष्मद् (३.१) by you
उच्चैःउच्चैस् the lofty
हिरण्मयम्हिरण्मय (२.१) golden
शृङ्गम्शृङ्ग (२.१) peak
सुमेरोःसुमेरु (६.१) of Mount Sumeru
वितथीकृतम्वितथीकृत (√कृ+च्वि+क्त, २.१) has been rendered insignificant
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञ भा भु जां ध्ये
मा स्थु षा त्व या
च्चै र्हि ण्म यं शृ ङ्गं
सु मे रो र्वि थी कृ तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.