Loading data... On slow networks this could take a few minutes.
100%

उपपन्नमिदं सर्वमतः परमपि त्वयि ।
मनसः शिखराणां च सदृशी ते समुन्नतिः ॥

अन्वयः AI (हे भूधर!) त्वयि इदम् सर्वम् उपपन्नम्। अतः परम् अपि (उपपन्नम्)। ते मनसः शिखराणाम् च समुन्नतिः सदृशी।
सञ्जीविनीटीका (मल्लिनाथः) उपपन्नमिति । इदम् `एते वयममी दाराः` (६/६३) इत्याद्युक्तं सर्वमतः परमतोऽधिकमपि त्वय्युपपन्नं युज्यते । तथाहि । ते मनसः शिखराणां च समुन्नतिः सदृशी । शिखराणीव मनो महोन्नतमित्यर्थः । किं नाम दुष्करमुन्नतचित्तानामिति भावः । प्रस्तुताप्रस्तुतयोर्मनः शिखरयोरौपम्यस्य गम्यत्वाद्दीपकालंकारः
Summary AI Angiras said to Himalaya: "All this praise is fitting for you, and even more. The loftiness of your mind and of your peaks is alike; both are equally elevated."
सारांश AI आपके विषय में यह सब और इससे भी अधिक संभव है, क्योंकि आपके मन की उदारता आपके शिखरों की ऊँचाई के ही समान ऊँची है।
पदच्छेदः AI
उपपन्नम्उपपन्न (उप√पद्+क्त, १.१) Fitting
इदम्इदम् (१.१) this
सर्वम्सर्व (१.१) all
अतःअतः than this
परम्पर (१.१) more
अपिअपि even
त्वयियुष्मद् (७.१) in you
मनसःमनस् (६.१) of the mind
शिखराणाम्शिखर (६.३) of the peaks
and
सदृशीसदृश (१.१) is similar
तेयुष्मद् (६.१) your
समुन्नतिःसमुन्नति (सम्+उत्√नम्+क्तिन्, १.१) loftiness
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्न मि दं र्व
तः पि त्व यि
सः शि रा णां
दृ शी ते मु न्न तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.