Loading data... On slow networks this could take a few minutes.
100%

जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।
विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥

अन्वयः AI मे द्विरूपम् अपि वपुः विभक्तानुग्रहं मन्ये । जङ्गमं (वपुः) वः प्रैष्यभावे, स्थावरं (वपुः) चरणाङ्कितम् (इति) ।
सञ्जीविनीटीका (मल्लिनाथः) जङ्गममिति । हे मुनयः ! द्विरूपं जङ्गमस्थावरात्मकत्वाद् द्विप्रकारकमपि मे वपुर्विभक्तानुग्रहं विभज्य कृतप्रसादं मन्ये । कुतः । जंगमं वपुर्वो युष्माकं प्रैष्यभावे कैङ्कर्ये, स्थितमिति शेषः । `प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या` इति वृद्धिः । `नियोज्यकिंकरप्रैष्यभुजिष्यपरिचारकाः` इत्यमरः । स्थावरं वपुश्चरणाङ्कितम् । अयमेव हि महाननुग्रहो दासजनस्य यत्कर्मसु नियोजनं मूर्धनि पादन्यासश्चेति तात्पर्यार्थः
Summary AI "I consider my body, though of two forms (mobile and immobile), to be blessed in a divided manner: my mobile form is at your service, and my immobile form is sanctified by the marks of your feet."
सारांश AI मेरा चेतन शरीर आपकी सेवा के लिए है और जड़ रूप आपके चरणों से अंकित है; इस प्रकार मैं अपने इन दोनों रूपों को आपके अनुग्रह से धन्य मानता हूँ।
पदच्छेदः AI
जङ्गमंजङ्गम (२.१) my mobile form
प्रैष्यभावेप्रैष्यभाव (७.१) in servitude
वःयुष्मद् (४.३) to you
स्थावरंस्थावर (२.१) my immobile form
चरणाङ्कितम्चरणअङ्कित (√अङ्क्+क्त, २.१) is marked by your feet
विभक्तानुग्रहंविभक्त (वि√भज्+क्त)अनुग्रह (२.१) as blessed in a divided manner
मन्येमन्ये (√मन् कर्तरि लट् (आत्मने.) उ.पु. एक.) I consider
द्विरूपम्द्विरूप (२.१) of two forms
अपिअपि even
मेअस्मद् (६.१) my
वपुःवपुस् (२.१) body
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ङ्ग मं प्रै ष्य भा वे वः
स्था रं णा ङ्कि तम्
वि क्ता नु ग्र हं न्ये
द्वि रू पि मे पुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.