Loading data... On slow networks this could take a few minutes.
100%

संतानकतरुच्छायासुप्तविद्याधराध्वगम् ।
यस्य चोपवनं बाह्यं सुगन्धिर्गन्धमादनः ॥

अन्वयः AI यस्य च बाह्यम् उपवनं सुगन्धिः गन्धमादनः अस्ति, यत् संतानकतरुच्छायासुप्तविद्याधराध्वगम् अस्ति।
सञ्जीविनीटीका (मल्लिनाथः) संतानकेति । किंचेति चार्थः । संतानकतरोश्छायासु सुप्ता विद्याधरा देवताविशेषास्त एवाध्वगा यस्मिंस्तत्तथोक्तम् गन्धवद् गन्धाढ्यम् गन्धमादनं नाम गिरिर्यस्य पुरस्य बहिर्भवं बाह्यमुपवनमारामः । संतानकतरुच्छायेत्यत्र पूर्वपदार्थबाहुल्यसंभवेऽपि `शलभच्छायम्` `इक्षुच्छायम्` इति वत्समर्थच्छायानिष्पत्तेस्तदपेक्षाभावात् `छाया बाहुल्ये` (अष्टाध्यायी २.४.२२ ) इति नपुंसकत्वं नास्तीत्यनुसंधेयम् अत्र `गन्धवद् गन्धमादनम्` इत्यागन्तुकः पाठः । प्राचीनः पाठस्तु `सुगन्धिर्गन्धमादनः` इति पुंल्लिङ्गान्तः । अतएव क्षीरस्वामिना `गन्धमादनमन्ये च` इत्यत्र गन्धेन मादयतीति गन्धमादन इति व्याख्याय प्रयोगे च पुलिङ्गता दृश्यत इत्याशयेनोक्तम् `सुगन्धिर्गन्धमादनः` इति कालिदास इति
Summary AI And whose outer pleasure garden is the fragrant Gandhamadana mountain itself, where Vidyadhara travelers rest in the shade of the celestial Santanaka trees.
सारांश AI जिसका बाहरी उपवन सुगंधित गंधमादन पर्वत है, जहाँ कल्पवृक्षों की सुखद छाया में थके हुए विद्याधर यात्री विश्राम करते और सोते हैं।
पदच्छेदः AI
संतानकतरुच्छायासुप्तविद्याधराध्वगम्संतानकतरुछायासुप्त (√स्वप्+क्त)विद्याधरअध्वग (२.१) in which Vidyadhara travelers sleep in the shade of Santanaka trees
यस्ययद् (६.१) whose
and
उपवनंउपवन (२.१) pleasure garden
बाह्यंबाह्य (२.१) outer
सुगन्धिःसुगन्धि (१.१) fragrant
गन्धमादनःगन्धमादन (१.१) Gandhamadana mountain
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं ता रु च्छा या
सु प्त वि द्या रा ध्व गम्
स्य चो नं बा ह्यं
सु न्धि र्ग न्ध मा नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.