जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः ॥

अन्वयः AI यत्र नागाः जितसिंहभयाः, अश्वाः बिलयोनयः, यक्षाः किंपुरुषाः पौराः, योषितः वनदेवताः (सन्ति) ।
सञ्जीविनीटीका (मल्लिनाथः) जितेति । यत्र पुरे नागा गजा जितं सिंहेभ्यो भयं यैस्ते तथोक्ताः । सिंहाधिकबला इत्यर्थः । नाथस्तु `पदं तुषारस्रुतिधौतरक्तम्` (१/६) इत्येतद्विरोधभयात् `वीतभयाः` इति पपाठ । तथा न भेतव्यं तत्र वनगजानां सिंहहतत्वाभिधानात् । अत्र त्वोषधिप्रस्थगजानां हिमवन्महिम्ना सिंहातिरेकसंभवेनाविरोधादिति । `वीतवीतभयाः` इति पाठे वीतं विगतं वीतात्पादाङ्कुशकर्मभ्यां भयं येषां ते तथोक्ताः । स्वभावविनीता इत्यर्थः । `पादकर्मयुतं प्रोक्तं यातमङ्कुशावारणम् । उभयं वीतमाख्यातम्` इति यादवः । अश्वा बिलयोनयो बिलसंभवाः । अन्यत्र तु न तथेति वैचित्र्यम् । उक्तं च- `अमृताद्वाष्पतो वह्नेर्वेदेभ्योण्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता ।` इति । यक्षाः प्रसिद्धाः । किंपुरुषाः किंनराश्च पौराः पुरजनाः । वनदेवता एव योषितः । न तु मानुष्य इत्यर्थः
Summary AI In that city, the elephants have overcome their fear of lions, the horses are born from caves, the citizens are Yakshas and Kimpurushas, and the women are forest goddesses.
सारांश AI वहाँ हाथियों को सिंहों का भय नहीं था, घोड़े दिव्य योनि के थे और यक्ष, किन्नर तथा वन-देवियाँ वहाँ के नागरिक थे।
पदच्छेदः AI
जितसिंहभयाःजित (√जि+क्त)सिंहभय (१.३) whose fear of lions is conquered
नागाःनाग (१.३) elephants
यत्रयत्र where
अश्वाःअश्व (१.३) horses
बिलयोनयःबिलयोनि (१.३) are born from caves
यक्षाःयक्ष (१.३) Yakshas
किंपुरुषाःकिंपुरुष (१.३) and Kimpurushas
पौराःपौर (१.३) are the citizens
योषितःयोषित् (१.३) the women
वनदेवताःवनदेवता (१.३) are forest goddesses
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जि सिं या ना गा
त्रा श्वा बि यो यः
क्षाः किं पु रु षाः पौ रा
यो षि तो दे ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.