Loading data... On slow networks this could take a few minutes.
100%

गङ्गास्रोतःपरिक्षिप्तवप्रान्तर्ज्वलितौषधि ।
बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥

अन्वयः AI (तत् पुरम्) गङ्गा-स्रोतः-परिक्षिप्त-वप्र-अन्तः-ज्वलित-ओषधि, बृहत्-मणि-शिला-सालम्, गुप्तम् अपि मनोहरम् (आसीत्) ।
सञ्जीविनीटीका (मल्लिनाथः) गङ्गेति । गङ्गायाः स्रोतोभिः प्रवाहैः परिक्षिप्तं परिवेष्टितम् । तैरेव सपरिखमित्यर्थः । वप्रश्चयः । प्राकारचैत्यमिति यावत् । `स्याच्चयो वप्रमस्त्रियाम् ।` इत्यमरः (अमरकोशः २.२.३ ) । तस्यान्तर्मध्ये ज्वलिताः प्रकाशमाना ओषधयो यस्य तत्तथोक्तम् । ज्वलितौषधित्वाद्रात्रिषु संचारिणां दीपनिरपेक्षमित्यर्थः । बृहन् विपुलो मणिशिलानां माणिक्यानां सालः `प्राकारो वरणः सालः` इत्यमरः (अमरकोशः २.२.३ ) । यस्मिंस्तत् अतएव गुप्तावपि संवरणेऽपि मनोहरम् । अकृत्रिमदुर्गसंवरणमिति भावः
Summary AI That city had herbs glowing within its ramparts, which were encircled by the streams of the Ganga. It had massive ramparts made of jeweled stones, and though well-fortified, it was captivating.
सारांश AI गंगा की धाराओं से घिरे परकोटों, चमकती औषधियों और विशाल मणि-शिलाओं की दीवारों वाली वह नगरी अत्यन्त सुरक्षित और मनमोहक थी।
पदच्छेदः AI
गङ्गास्रोतःपरिक्षिप्तवप्रान्तर्ज्वलितौषधिगङ्गा–स्रोतःपरिक्षिप्त (परि√क्षिप्+क्त)वप्रअन्तर्ज्वलित (√ज्वल्+क्त)ओषधि–गङ्गास्रोतःपरिक्षिप्तवप्रान्तर्ज्वलितौषधि (१.१) a city where herbs glowed within its ramparts that were encircled by the streams of the Ganga
बृहन्मणिशिलासालम्बृहत्मणिशिलासाल–बृहन्मणिशिलासाल (१.१) having ramparts of huge jeweled stones
गुप्तम्गुप्त (√गुप्+क्त, १.१) well-fortified
अपिअपि even though
मनोहरम्मनोहर (१.१) it was captivating
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ङ्गा स्रो तः रि क्षि प्त
प्रा न्त र्ज्व लि तौ धि
बृ न्म णि शि ला सा लं
गु प्ता पि नो रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.