Loading data... On slow networks this could take a few minutes.
100%

अलकामतिवाह्येव वसतिं वसुसंपदाम् ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥

अन्वयः AI (तत् पुरम्) वसु-संपदाम् वसतिम् अलकाम् अतिवाह्य इव, स्वर्ग-अभिष्यन्द-वमनम् कृत्वा इव उपनिवेशितम् (आसीत्) ।
सञ्जीविनीटीका (मल्लिनाथः) अलकामिति । वसुसंपदां धनसमृद्धीनां वसतिं स्थानमलकां कुबेरनगरीमतिवाह्य । परिच्छिद्येति यावत् । उपनिवेशितमिव स्थितम् । तथा स्वर्गस्याभिष्यन्दोऽतिरेकः । अतिरिक्तजन इति यावत् । तस्य वमनं निःसारणं कृत्वोपनिवेशितमिव स्थितम् । उभयत्रापि कौटिल्यः- `भूतपूर्वमभूतपूर्वं वा जनपदं परदेशापवादेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्` इति । अलकामरावत्यतिशयितसमृद्धिकमित्यर्थः
Summary AI That city (Oshadhiprastha) seemed as if it was founded after surpassing Alaka, the abode of wealth, and as if by disgorging the very overflow of heaven.
सारांश AI वह नगरी धन-सम्पदा में अलकापुरी से भी श्रेष्ठ थी और ऐसी लगती थी मानो स्वर्ग का अतिरिक्त सौंदर्य ही धरती पर उतार दिया गया हो।
पदच्छेदः AI
अलकाम्अलका (२.१) Alaka
अतिवाह्यअतिवाह्य (अति√वह्+ल्यप्) having surpassed
इवइव as if
वसतिम्वसति (२.१) the abode
वसुसंपदाम्वसु–संपद्–वसुसंपद् (६.३) of wealth and riches
स्वर्गाभिष्यन्दवमनम्स्वर्गअभिष्यन्दवमन–स्वर्गाभिष्यन्दवमन (२.१) a disgorging of the overflow of heaven
कृत्वाकृत्वा (√कृ+क्त्वा) having made
इवइव as if
उपनिवेशितम्उपनिवेशित (उप+नि√विश्+णिच्+क्त, १.१) was founded
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का ति वा ह्ये
तिं सु सं दाम्
स्व र्गा भि ष्य न्द नं
कृ त्वे वो नि वे शि तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.