ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ।
भगवानपि संप्राप्तः प्रथमोद्दिष्टमास्पदम् ॥

अन्वयः AI ततः मुनि-मण्डलम् 'परमम्' इति उक्त्वा प्रतस्थे । भगवान् अपि प्रथम-उद्दिष्टम् आस्पदम् संप्राप्तः ।
सञ्जीविनीटीका (मल्लिनाथः) तत इति । ततोऽनन्तरं मुनिमण्डलं मुनिसमूहः परममित्युक्त्वा ओमित्युक्त्वा। अनुमन्येत्यर्थः । अव्ययमेतत् । `ओमेवं परमं मतम्` इत्यमरः (अमरकोशः ३.४.१२ ) । प्रतस्थे । भगवानीश्वरोऽपि प्रथमोद्दिष्टं पूर्वसंकेतितमास्पदं स्थानं महाकोशीप्रपातं संप्राप्तः
Summary AI Then, the group of sages, saying "Excellent!", set out. The Lord (Shiva) also reached the place he had mentioned before.
सारांश AI 'बहुत अच्छा' कहकर मुनियों का समूह प्रस्थान कर गया और भगवान शिव भी अपने पूर्व निश्चित स्थान पर चले गए।
पदच्छेदः AI
ततःततस् Then
परमम्परम (२.१) Excellent
इतिइति thus
उक्त्वाउक्त्वा (√वच्+क्त्वा) having said
प्रतस्थेप्रतस्थे (प्र√स्था कर्तरि लिट् (आत्मने.) प्र.पु. एक.) set out
मुनिमण्डलम्मुनिमण्डल–मुनिमण्डल (१.१) the group of sages
भगवान्भगवत् (१.१) The Lord
अपिअपि also
संप्राप्तःसंप्राप्त (सम्+प्र√आप्+क्त, १.१) reached
प्रथमोद्दिष्टम्प्रथमउद्दिष्ट (उद्√दिश्+क्त)–प्रथमोद्दिष्ट (२.१) the previously mentioned
आस्पदम्आस्पद (२.१) place
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तः मि त्यु क्त्वा
प्र स्थे मु नि ण्ड लम्
वा पि सं प्रा प्तः
प्र मो द्दि ष्ट मा स्प दम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.