आर्याप्यरुन्धती तत्र व्यापारं कर्तुंअर्हति ।
प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥

अन्वयः AI तत्र आर्या अरुन्धती अपि व्यापारम् कर्तुम् अर्हति । प्रायेण एवंविधे कार्ये पुरन्ध्रीणाम् प्रगल्भता (भवति) ।
सञ्जीविनीटीका (मल्लिनाथः) आर्येति । आर्या पूज्यारुन्धत्यपि तत्र विवाहकृत्ये व्यापारं साहाय्यं कर्तुमर्हति । तथाहि । प्रायेण प्राचुर्येणैवंविधे । कार्य विवाहादिकार्ये । दुर्घट इत्यर्थः । पुरंध्रीणां कुटुम्बिनीनाम् । `स्यात्तु कुटुम्बिनी । पुरन्ध्री` इत्यमरः (अमरकोशः २.६.६ ) । प्रगल्भता चातुर्यम् । स्त्रीप्रधानेषु कृत्येषु स्त्रीणामेव घटनापाटवमिति भावः
Summary AI The noble Arundhati is also suited to play a role in this matter. Generally, in such affairs, respectable women possess greater skill and eloquence.
सारांश AI आर्या अरुन्धती को भी इस कार्य में सहयोग करना चाहिए, क्योंकि विवाह जैसे मांगलिक कार्यों में स्त्रियाँ अधिक चतुर और कुशल होती हैं।
पदच्छेदः AI
आर्याआर्य (१.१) The noble
अपिअपि also
अरुन्धतीअरुन्धती (१.१) Arundhati
तत्रतत्र in that matter
व्यापारम्व्यापार (२.१) a role
कर्तुम्कर्तुम् (√कृ+तुमुन्) to perform
अर्हतिअर्हति (√अर्ह् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is suited
प्रायेणप्राय (३.१) Generally
एवंविधेएवंविध (७.१) in such
कार्येकार्य (७.१) an affair
पुरन्ध्रीणाम्पुरन्ध्री (६.३) of respectable women
प्रगल्भताप्रगल्भता (१.१) eloquence/skill
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्या प्य रु न्ध ती त्र
व्या पा रं र्तुं र्ह ति
प्रा ये णै वं वि धे का र्ये
पु न्ध्री णां प्र ल्भ ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.