विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः ।
ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥

अन्वयः AI मे काश्चित् प्रवृत्तयः स्वार्थाः न (सन्ति) इति यथा, (तत्) वः विदितम् । ननु अष्टाभिः मूर्तिभिः इत्थंभूतः सूचितः अस्मि ।
सञ्जीविनीटीका (मल्लिनाथः) विदितमिति । हे मुनयः ! काश्चिदपि मे प्रवृत्तयो व्यापाराः स्वार्था न भवन्ति यथा तथा वो युष्माकं विदितम् । वाक्यार्थः कर्म । बुद्धर्थत्वाद्वर्तमाने क्तः, तद्योगात्षष्ठी । प्रवृत्तिपारार्थ्ये प्रमाणमाह-अष्टाभिर्मूर्तिभिरित्थंभूतं इमं प्रकारं परार्थप्रवृत्तिरुपं प्राप्तः । `भू प्राप्तो` इति धातोः कर्तरि क्तः । सूचितो ज्ञापितोऽस्मि । मत्स्वमूर्तिचेष्टया स्वपारार्थ्यमनुमेयमित्यर्थः ।
Summary AI It is known to you that none of my activities are for my own sake. Surely, by my eight forms, I am indicated to be of this nature (i.e., acting for the world's benefit).
सारांश AI आप जानते हैं कि मेरी कोई भी प्रवृत्ति निजी स्वार्थ के लिए नहीं होती। मेरी आठ मूर्तियाँ (अष्टमूर्ति) मेरे परोपकारी स्वभाव को ही प्रकट करती हैं।
पदच्छेदः AI
विदितम्विदित (√विद्+क्त, १.१) It is known
वःयुष्मद् (६.३) to you
यथायथा that
स्वार्थाःस्वअर्थस्वार्थ (१.३) for my own sake
not
मेअस्मद् (६.१) my
काश्चित्किञ्चित् (१.३) any
प्रवृत्तयःप्रवृत्ति (१.३) activities
ननुननु Surely
मूर्तिभिःमूर्ति (३.३) by the forms
अष्टाभिःअष्टन् (३.३) eight
इत्थंभूतःइत्थम्भूत–इत्थंभूत (१.१) of this nature
अस्मिअस्मि (√अस् कर्तरि लट् (परस्मै.) उ.पु. एक.) I am
सूचितःसूचित (√सूच्+क्त, १.१) indicated
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि दि तं वो था स्वा र्था
मे का श्चि त्प्र वृ त्त यः
नु मू र्ति भि ष्टा भि
रि त्थं भू तो ऽस्मि सू चि तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.