यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः ।
किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥

अन्वयः AI (त्वम्) यस्य चेतसि वर्तेथाः, सः तावत् कृतिनाम् वरः । यः तव चेतसि वर्तते, सः ब्रह्मयोनिः (अस्ति इति) किम् पुनः (वक्तव्यम्)?
सञ्जीविनीटीका (मल्लिनाथः) यस्येति । यस्य जनस्य चेतसि वर्तेथाः, येन स्मर्यस इत्यर्थः । स तावत्स एव कृतिनां कृतकृत्यानां वरः श्रेष्ठः । ब्रह्मणो वेधसो वा योनेः कारणस्य । यद्वा वेदप्रमाणकस्य । तव चेतसि यो वर्तते । त्वया स्मर्यत इत्यर्थः । किं पुनः । स कृतिनां वर इति किमु वक्तव्यमित्यर्थः
Summary AI He in whose mind you might dwell is indeed the best among the fortunate. What more, then, can be said of Brahma, who himself dwells in your mind?
सारांश AI जिसके हृदय में आप निवास करते हैं वह धन्य है, फिर उनका तो कहना ही क्या जिन्हें स्वयं आपने अपने हृदय में स्थान देकर स्मरण किया है।
पदच्छेदः AI
यस्ययद् (६.१) of whom
चेतसिचेतस् (७.१) in the mind
वर्तेथाःवर्तेथाः (√वृत् कर्तरि विधिलिङ् (आत्मने.) म.पु. एक.) you might exist
सःतद् (१.१) he
तावत्तावत् indeed
कृतिनाम्कृतिन् (६.३) of the fortunate ones
वरःवर (१.१) the best
किम्किम् what
पुनःपुनर् moreover
ब्रह्मयोनेःब्रह्मयोनि (६.१) of Brahma
यःयद् (१.१) who
तवयुष्मद् (६.१) your
चेतसिचेतस् (७.१) in the mind
वर्ततेवर्तते (√वृत् कर्तरि लट् (आत्मने.) प्र.पु. एक.) exists
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्य चे सि र्ते थाः
ता त्कृ ति नां रः
किं पु र्ब्र ह्म यो ने र्य
स्त चे सि र्त ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.