Loading data... On slow networks this could take a few minutes.
100%

यद्ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् ।
यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः ॥

अन्वयः AI यत् ब्रह्म सम्यक् आम्नातम्, यत् अग्नौ विधिना हुतम्, यत् च तपः तप्तम्, तस्य फलम् अद्य नः विपक्वम् ।
सञ्जीविनीटीका (मल्लिनाथः) यदिति । ब्रह्म वेदः । `वेदस्तत्त्वं तपो ब्रह्म` इत्यमरः सम्यङ् नियमपूर्वकमाम्नातमधीतमिति यत् । अग्नौ विधिना हुतमिति यत् । तपश्चान्द्रायणादिकं तप्तमिति च यत्तस्याध्ययनेज्यातपोरूपस्य आश्रमत्रयसाध्यस्य कृत्स्नस्यापि कर्मण इत्यर्थः । समुदायाभिप्रायकमेकवचनमन्यथावृत्त्यान्वयप्रसङ्गात् । न च नपुंसकैकवद्भावोऽनपुंसकेनेति नियमात् । फलं कार्यमद्य नोऽस्माकं विपक्वम् । सुनिष्पन्नमित्यर्थः । कर्मणि क्तः `पचो वः` (अष्टाध्यायी ८.२.५२ ) इति निष्ठातस्य वत्वम्
Summary AI The Vedas that have been properly studied, the offerings made in the fire according to ritual, and the austerities that have been performed—the ripe fruit of all that has come to us today.
सारांश AI ऋषियों ने कहा कि हमने जो वेदों का अध्ययन किया, अग्नि में आहुतियाँ दीं और जो तपस्या की, आपके दर्शन से उन सबका फल आज हमें प्राप्त हो गया है।
पदच्छेदः AI
यत्यद् (१.१) That which
ब्रह्मब्रह्मन् (१.१) Veda
सम्यक्सम्यक् properly
आम्नातम्आम्नात (आ√म्ना+क्त, १.१) has been studied
यत्यद् (१.१) that which
अग्नौअग्नि (७.१) in the fire
विधिनाविधि (३.१) according to rule
हुतम्हुत (√हु+क्त, १.१) has been offered
यत्यद् (१.१) that which
and
तप्तम्तप्त (√तप्+क्त, १.१) has been performed
तपःतपस् (१.१) austerity
तस्यतद् (६.१) of that
विपक्वम्विपक्व (वि√पच्+क्त, १.१) ripe
फलम्फल (१.१) fruit
अद्यअद्य today
नःअस्मद् (६.३) for us
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्ब्र ह्म म्य गा म्ना तं
ग्नौ वि धि ना हु तम्
च्च प्तं स्त स्य
वि क्वं द्य नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.