अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।
इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ॥

अन्वयः AI अथ अनूचानाः प्रीति-कण्टकित-त्वचः ते सर्वे मुनयः जगद्गुरुम् मानयित्वा इदम् ऊचुः ।
सञ्जीविनीटीका (मल्लिनाथः) अथेति । अथानूचानाः । साङ्गवेदप्रवक्तारः । `अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः` इत्यमरः (अमरकोशः २.७.१२ ) । `उपेयिवाननाश्वाननूचानश्च` (अष्टाध्यायी ३.२.१०९ ) इति निपातः । प्रीत्या कण्टकिताः पुलकितास्त्वचो येषां ते तथोक्ताः । ते सर्वे मुनयो जगद्गुरुं हरं मानयित्वा पूजयित्वेदं वक्ष्यमाणमूचुः
Summary AI Then, all those learned sages, their skin horripilated with joy, having honored the teacher of the world (Shiva), spoke these words.
सारांश AI फिर उन विद्वान ऋषियों ने जगद्गुरु शिव का सत्कार किया और आनंद से रोमांचित होकर उनसे ये वचन कहे।
पदच्छेदः AI
अथअथ Then
तेतद् (१.३) those
मुनयःमुनि (१.३) sages
सर्वेसर्व (१.३) all
मानयित्वामानयित्वा (√मन्+णिच्+क्त्वा) having honored
जगद्गुरुम्जगत्गुरुजगद्गुरु (२.१) the teacher of the world
इदम्इदम् (२.१) this
ऊचुःऊचुः (√वच् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) said
अनूचानाःअनूचान (अनु√वच्+कानच्, १.३) the eloquent ones
प्रीतिकण्टकितत्वचःप्रीतिकण्टकितत्वच्–प्रीतिकण्टकितत्वच् (१.३) whose skin was horripilated with joy
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते मु यः र्वे
मा यि त्वा द्गु रुम्
मू चु नू चा नाः
प्री ति ण्ट कि त्व चः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.