यथा प्रसिद्धैर्मधुरं शिरोरुहै-
र्जटाभिरप्येवमभूत्तदाननम् ।
न शट्पदश्रेणिभिरेव पङ्कजं
सशैवलासङ्गमपि प्रकाशते ॥

अन्वयः AI यथा प्रसिद्धैः शिरोरुहैः (तदाननम्) मधुरम् (आसीत्), एवम् जटाभिः अपि तत् आननम् मधुरम् अभूत् । पङ्कजम् षट्पद-श्रेणिभिः एव न (प्रकाशते), स-शैवल-आसङ्गम् अपि प्रकाशते ।
सञ्जीविनीटीका (मल्लिनाथः) यथेति ॥ तस्या देव्या आननं तदाननं प्रसिद्धैर्भूषितैः । `प्रसिद्धौ ख्यातभूषितौ` इत्यमरः (अमरकोशः ३.३.११२ ) । रोहन्तीति रुहाः । `इगुपधज्ञाप्रीकिरः कः ` इति कप्रत्ययः । शिरसि रुहास्तैः शिरोरुहैर्मूर्धजैर्यथा मधुरं प्रियमभूत् । `स्वादुप्रियौ तु मधुरौ` इत्यमरः (अमरकोशः ३.३.११२ ) । जटाभिरप्येवं मधुरमभूत् । तथाहि पङ्कजं पद्मं षट्पद्श्रेणिभिर्भ्रमरपङ्किभिरेव न किंतु सह शैवालसङ्गेन सशैवालसङ्गमपि । `तेन सहेति तुल्ययोग` इति बहुव्रीहिः । प्रकाशते । शैवलेनापि शोभत एवेत्यर्थः
Summary AI Just as her face was lovely with its famous tresses, so it became lovely even with matted hair. A lotus shines not only with rows of bees but also when entwined with moss.
सारांश AI जटाओं को धारण करने के बाद भी पार्वती का मुख वैसा ही सुंदर लग रहा था जैसा संवरे हुए बालों में। जैसे कमल भ्रमरों और काई दोनों के साथ सुशोभित होता है।
पदच्छेदः AI
यथायथा Just as
प्रसिद्धैःप्रसिद्ध (प्र√सिध्+क्त, ३.३) with its famous
मधुरम्मधुर (१.१) lovely
शिरोरुहैःशिरोरुह (३.३) tresses
जटाभिःजटा (३.३) with matted hair
अपिअपि even
एवम्एवम् so
अभूत्अभूत् (√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) became
तत्तद् (१.१) her
आननम्आनन (१.१) face
not
षट्पदश्रेणिभिःषट्पदश्रेणि (३.३) with rows of bees
एवएव only
पङ्कजम्पङ्कज (१.१) A lotus
सशैवलासङ्गम्शैवलआसङ्ग (१.१) entwined with moss
अपिअपि also
प्रकाशतेप्रकाशते (प्र√काश् कर्तरि लट् (आत्मने.) प्र.पु. एक.) shines
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था प्र सि द्धै र्म धु रं शि रो रु है
र्ज टा भि प्ये भू त्त दा नम्
ट्प श्रे णि भि रे ङ्क जं
शै ला ङ्ग पि प्र का ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.