अद्यप्रभृत्यवनताङ्गि तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
अह्नाय सा नियमजं क्लममुत्ससर्ज
क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥

अन्वयः AI चन्द्रमौलौ "अवनताङ्गि, अद्यप्रभृति तपोभिः क्रीतः तव दासः अस्मि" इति वादिनि (सति), सा अह्नाय नियमजम् क्लमम् उत्ससर्ज । हि क्लेशः फलेन पुनः नवताम् विधत्ते ।
सञ्जीविनीटीका (मल्लिनाथः) अद्येति । चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति ! अद्य प्रभृति । अस्माद्दिनादारभ्येत्यर्थः । प्रभृतियोगादद्येति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते । तव तपोभिः क्रीतः । दासृ दाने । दासत आत्मनं ददातीति दासोऽस्मीति वादिनि वदति सति । सा देव्यह्नाय सपदि । `स्राग्झटित्यञ्जसाह्नाय द्राङ् मङ्क्षु सपदि द्रुतम्` इत्यमरः । नियमजं तपोजन्यं क्लमं क्लेशमुत्ससर्ज । फलप्राप्त्या क्लेशं विसस्मारेत्यर्थः । तथाहि । क्लेशः फलेन फलसिद्ध्या पुनर्नवतां विधत्ते पूर्ववदेवाक्लिष्टतामापादयतीत्यर्थः । सफलः क्लेशो न क्लेश इति भावः
Summary AI When the moon-crested one (Shiva) said, "O slender-limbed one, from this day forth I am your slave, bought by your austerities," she instantly cast off the fatigue born of her penance. For indeed, hardship, when crowned with success, assumes a new freshness.
सारांश AI शिव ने जब कहा कि "आज से मैं तुम्हारी तपस्या से खरीदा हुआ तुम्हारा दास हूँ", तब पार्वती की सारी थकान मिट गई। फल प्राप्त होने पर पुराना सारा कष्ट नवीन आनंद में बदल जाता है।
पदच्छेदः AI
अद्यप्रभृतिअद्यप्रभृति from this day forth
अवनताङ्गिअवनतअङ्गी (८.१) O slender-limbed one
तवयुष्मद् (६.१) your
अस्मिअस्मि (√अस् कर्तरि लट् (परस्मै.) उ.पु. एक.) I am
दासःदास (१.१) slave
क्रीतःक्रीत (√क्री+क्त, १.१) bought
तपोभिःतपस् (३.३) by your austerities
इतिइति thus
वादिनिवादिन् (√वद्+णिनि, ७.१) when he said
चन्द्रमौलौचन्द्रमौलि (७.१) the moon-crested one
अह्नायअह्नाय instantly
सातद् (१.१) she
नियमजम्नियम (२.१) born of her penance
क्लमम्क्लम (२.१) the fatigue
उत्ससर्जउत्ससर्ज (उद्√सृज् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) cast off
क्लेशःक्लेश (१.१) hardship
फलेनफल (३.१) with success
हिहि for indeed
पुनःपुनर् again
नवताम्नवता (२.१) freshness
विधत्तेविधत्ते (वि√धा कर्तरि लट् (आत्मने.) प्र.पु. एक.) assumes
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
द्य प्र भृ त्य ता ङ्गि वा स्मि दा सः
क्री स्त पो भि रि ति वा दि नि न्द्र मौ लौ
ह्ना सा नि जं क्ल मु त्स र्ज
क्ले शः ले हि पु र्न तां वि त्ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.