Loading data... On slow networks this could take a few minutes.
100%

निवार्यतामालि किमप्ययं बटुः
पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतोऽपभाषते
शृणोति तस्मादपि यः स पापभाक् ॥

अन्वयः AI आलि, अयम् बटुः स्फुरितोत्तराधरः (सन्) पुनः किम् अपि विवक्षुः (अस्ति), (अयम्) निवार्यताम् । यः महतः अपभाषते (सः) न केवलम् (पापभाक्), यः तस्मात् शृणोति सः अपि पापभाक् (भवति) ।
सञ्जीविनीटीका (मल्लिनाथः) निवार्यतामिति । हे आलि सखि ! `आलिः सखी वयस्या च` इत्यमरः (अमरकोशः २.६.१२ ) । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोऽयं वटुर्माणवकः पुनः किमपि विवक्षुर्वक्तुमिच्छुः । ब्रुवः सन्नन्तादुप्रत्ययः । निवार्यताम् । तर्हि वक्तुमेव कथं न ददासीत्याह-तथाहि । यो महतः पूज्यानपभाषतेऽपवदति न केवलं स पापभाग्भवति । किंतु तस्मादपभाषमाणात्पुरुषाद्यः श्रृणोति सोऽपि पापभाक् । भवतीति । शेषः । अत्र स्मृतिः-`गुरोः प्राप्तः परीवादो न श्रीतव्यः कथंचन । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ।` इति
Summary AI "O friend, stop this Brahmin! With his upper lip quivering, he seems eager to say something more. Not only he who speaks ill of the great, but also he who listens to him, partakes in the sin."
सारांश AI हे सखी! इस ब्रह्मचारी को और कुछ कहने से रोको। जो महापुरुषों की निंदा करता है वह तो पापी है ही, परंतु जो उस निंदा को सुनता है, वह भी समान रूप से पाप का भागी होता है।
पदच्छेदः AI
निवार्यताम्निवार्यताम् (नि√वृ +णिच् भावकर्मणोः लोट् (आत्मने.) प्र.पु. एक.) let him be stopped
आलिआलि (८.१) O friend
किम्किम् something
अपिअपि more
अयम्इदम् (१.१) this
बटुःबटु (१.१) Brahmin
पुनःपुनर् again
विवक्षुःविवक्षु (√वच्+सन्+उ, १.१) is eager to speak
स्फुरितोत्तराधरःस्फुरितउत्तरअधर (१.१) whose upper lip is quivering
not
केवलम्केवलम् only
यःयद् (१.१) he who
महतःमहत् (२.१) of the great
अपभाषतेअपभाषते (अप√भाष् कर्तरि लट् (आत्मने.) प्र.पु. एक.) speaks ill
शृणोतिशृणोति (√श्रु कर्तरि लट् (परस्मै.) प्र.पु. एक.) listens
तस्मात्तद् (५.१) from him
अपिअपि also
यःयद् (१.१) he who
सःतद् (१.१) he
पापभाक्पापभाज् (१.१) partakes in the sin
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि वा र्य ता मा लि कि प्य यं टुः
पु र्वि क्षुः स्फु रि तो त्त रा रः
के लं यो तो ऽप भा ते
शृ णो ति स्मा पि यः पा भाक्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.