Loading data... On slow networks this could take a few minutes.
100%

विवक्षता दोषमपि च्युतात्मना
त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं
कथं स लक्ष्यप्रभवो भविष्यति ॥

अन्वयः AI च्युतात्मना दोषम् अपि विवक्षता त्वया ईशम् प्रति एकम् साधु भाषितम् । यम् आत्मभुवः अपि कारणम् आमनन्ति, सः कथम् लक्ष्यप्रभवः भविष्यति?
सञ्जीविनीटीका (मल्लिनाथः) विवक्षतेति । च्युतात्मना नष्टस्वभावेनात एव दोषं दूषणं विवक्षता वक्तुमिच्छतापि त्वयेशं प्रत्येकम् `अलक्ष्यजन्मता` इत्येतदेकम् । वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः ? यमीश्वरमात्मभुवोऽपि ब्रह्माणोऽपि । `ब्रह्मात्मभूः सुरज्येष्ठ` इत्यमरः (अमरकोशः १.१.१६ ) । कारणमामनन्त्युदाहरन्ति । विद्वांस इति शेषः । `पाध्राध्मास्थाम्नादाणी-` त्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यप्रभवो लक्ष्यजन्मा भविष्यति । अनादिनिधनस्य भगवतः कारणशङ्काकलङ्कश्च नान्विष्यत इत्यर्थः
Summary AI "Though you are a fallen soul wishing to speak of his faults, you have said one thing well about the Lord. He whom they consider the cause of even the self-born Brahma, how can He have a traceable origin?"
सारांश AI दोष ढूँढने की इच्छा रखने वाले आपके द्वारा शिव के विषय में एक बात सत्य कही गई है। जिन्हें स्वयं ब्रह्मा भी अपना कारण मानते हैं, उनका जन्म या मूल भला कैसे जाना जा सकता है?
पदच्छेदः AI
विवक्षताविवक्षत् (√वच्+सन्+शतृ, ३.१) by you wishing to speak
दोषम्दोष (२.१) of faults
अपिअपि even
च्युतात्मनाच्युतआत्मन् (३.१) by you, a fallen soul
त्वयायुष्मद् (३.१) by you
एकम्एक (१.१) one thing
ईशम्ईश (२.१) the Lord
प्रतिप्रति towards
साधुसाधु well
भाषितम्भाषित (√भाष्+क्त, १.१) has been said
यम्यद् (२.१) whom
आमनन्तिआमनन्ति (आ√मन् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they consider
आत्मभुवःआत्मभू (६.१) of the self-born (Brahma)
अपिअपि even
कारणम्कारण (२.१) the cause
कथम्कथम् how
सःतद् (१.१) he
लक्ष्यप्रभवःलक्ष्यप्रभव (१.१) one whose origin is traceable
भविष्यतिभविष्यति (√भू कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will be
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि क्ष ता दो पि च्यु ता त्म ना
त्व यै मी शं प्र ति सा धु भा षि तम्
मा न्त्या त्म भु वो ऽपि का णं
थं क्ष्य प्र वो वि ष्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.