अकिञ्चनः सन्प्रभवः स संपदां
त्रिलोकनाथः पितृसद्मगोचरः ।
स भीमरूपः शिव इत्युदीर्यते
न सन्ति याथार्थ्यविदः पिनाकिनः ॥

अन्वयः AI सः अकिञ्चनः सन् संपदाम् प्रभवः (अस्ति) । (सः) त्रिलोकनाथः (सन्) पितृसद्मगोचरः (अस्ति) । सः भीमरूपः (सन्) शिवः इति उदीर्यते । पिनाकिनः याथार्थ्यविदः न सन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) अकिंचनेति । स हरः । न विद्यते किंचन द्रव्यं यस्य सोऽकिंचनो दरिद्रः सन् । संपदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसद्मगोचरः श्मशानाश्रयः सन् । त्रयाणां लोकानां नाथः `तद्धितार्थे-` त्यादिनोत्तरपदसमासः । सदेवो भीमरूपो भयंसराकारः सन् । शिवः सौम्यरूप इत्युदीर्यते उच्यते । अतः पिनाकिनो हरस्य यथाभूतोऽर्थो यथार्थस्तस्य भावो याथार्थ्यं तत्वं तस्य विदो न सन्ति । लोकोत्तरमहिम्नो निर्लेपस्य यथाकथञ्चिदवस्थानं न दोषायेति भावः । एतेन `अवस्तुनिर्बन्धपरे` (५/६६) इति परिहृतं वेदितव्यम्
Summary AI Though possessing nothing, he is the source of all wealth. Though lord of the three worlds, he frequents cremation grounds. Though of terrifying form, he is called 'Shiva' (the auspicious one). Truly, there are none who know the real nature of the wielder of the Pinaka bow.
सारांश AI वे स्वयं अकिंचन होकर भी समस्त संपदाओं के स्रोत हैं और श्मशान में रहकर भी त्रिलोक के स्वामी हैं। भयानक रूप होने पर भी वे 'शिव' (कल्याणकारी) हैं; उनके वास्तविक स्वरूप को कोई नहीं जानता।
पदच्छेदः AI
अकिञ्चनःअकिञ्चन (१.१) possessing nothing
सन्सत् (√अस्+शतृ, १.१) being
प्रभवःप्रभव (१.१) the source
सःतद् (१.१) he
संपदाम्संपद् (६.३) of wealth
त्रिलोकनाथःत्रिलोकनाथ (१.१) the lord of the three worlds
पितृसद्मगोचरःपितृसद्मन्गोचर (१.१) one who frequents cremation grounds
सःतद् (१.१) he
भीमरूपःभीमरूप (१.१) of terrifying form
शिवःशिव (१.१) auspicious
इतिइति thus
उदीर्यतेउदीर्यते (उद्√ईर् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is called
not
सन्तिसन्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) there are
याथार्थ्यविदःयाथार्थ्यविद् (१.३) knowers of the true nature
पिनाकिनःपिनाकिन् (६.१) of the wielder of Pinaka
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
कि ञ्च नः न्प्र वः सं दां
त्रि लो ना थः पि तृ द्म गो रः
भी रू पः शि त्यु दी र्य ते
न्ति या था र्थ्य वि दः पि ना कि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.