Loading data... On slow networks this could take a few minutes.
100%

उवाच चैनं परमार्थतो हरं
न वेत्सि नूनं यत एवमात्थ माम् ।
अलोकसामान्यमचिन्त्यहेतुकं
द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥

अन्वयः AI (सा) एनम् उवाच च, नूनम् त्वम् हरम् परमार्थतः न वेत्सि, यतः माम् एवम् आत्थ । मन्दाः महात्मनाम् अलोकसामान्यम् अचिन्त्यहेतुकम् चरितम् द्विषन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) उवाचेति । अथैनं ब्रह्मचारिणमुवाच च । किमिति ? परमार्थतस्तत्त्वतो हरं न वेत्सि न जानासि नूनम् । कुतः । यतो मामेवमुक्तया रीत्यात्थ ब्रवीषि । `ब्रुवः पञ्चानामादित-इति रुपसिद्धिः । अज्ञानादेवायं शिवद्वेषस्तवेत्याशयेनाह-मन्दा मृढाः `मूढाल्पापटुनिर्भाग्या मन्दाः` इत्यमरः (अमरकोशः ३.३.१०२ ) । लोकसामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचिन्त्यहेतुकं दुर्बोधकारणकं महात्मनां चरितम् । द्विषन्ति हेत्वपरिज्ञानाद् दूषयन्ति । विद्वांसस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः
Summary AI Parvati told the Brahmin that he surely does not know Shiva in reality, which is why he speaks to her this way. She added that foolish people despise the conduct of great souls, which is extraordinary and has incomprehensible motives.
सारांश AI पार्वती ने कहा—तुम शिव के वास्तविक स्वरूप को नहीं जानते, इसीलिए ऐसा कह रहे हो। मूर्ख लोग महापुरुषों के अलौकिक और तर्क से परे आचरण से सदैव द्वेष ही करते हैं।
पदच्छेदः AI
उवाचउवाच (√वच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) said
and
एनम्एतद् (२.१) to him
परमार्थतःपरमार्थतस् in reality
हरम्हर (२.१) Shiva
not
वेत्सिवेत्सि (√विद् कर्तरि लट् (परस्मै.) म.पु. एक.) you know
नूनम्नूनम् surely
यतःयतः since
एवम्एवम् thus
आत्थआत्थ (√अह् कर्तरि लट् (परस्मै.) म.पु. एक.) you speak
माम्अस्मद् (२.१) to me
अलोकसामान्यम्लोकसामान्य (२.१) extraordinary
अचिन्त्यहेतुकम्चिन्त्य (√चिन्त्+ण्यत्)हेतुक (२.१) of incomprehensible motive
द्विषन्तिद्विषन्ति (√द्विष् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) despise
मन्दाःमन्द (१.३) the foolish
चरितम्चरित (२.१) the conduct
महात्मनाम्महात्मन् (६.३) of great souls
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वा चै नं मा र्थ तो रं
वे त्सि नू नं मा त्थ माम्
लो सा मा न्य चि न्त्य हे तु कं
द्वि न्ति न्दा श्च रि तं हा त्म नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.