वपुर्विरूपाक्षमलक्ष्यजन्मता
दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते
तदस्ति किं व्यस्तमपि त्रिलोचने ॥

अन्वयः AI बाल-मृग-अक्षि, वपुः विरूप-अक्षम्, जन्मता अलक्ष्या, वसु दिगम्बरत्वेन निवेदितम् । वरेषु यत् मृग्यते, तत् व्यस्तम् अपि त्रि-लोचने किम् अस्ति?
सञ्जीविनीटीका (मल्लिनाथः) वपुरिति । वपुस्तावदस्य विरुपाणि विकृतरुपाण्यक्षीणि नेत्राणि यस्य तद्विरुपाक्षम् । `बहुव्रीहौ सक्थ्यक्षणोः स्वाङ्गात्षच्` इति षच् प्रत्ययः । वैरूप्यं च त्रिनेत्रत्वादिति क्षीरस्वामी । अतो न सौन्दर्यवार्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस्य भावस्तत्ता । कुलमपि न जायत इत्यर्थः । `अलक्षिता जनिः` इति पाठे जनिरुत्पत्तिरलक्षिता न ज्ञाता । `जनिरुत्पत्तिरुद्भवः` इत्यमरः (अमरकोशः १.४.३१ ) । वसु वित्तं दिगम्बरत्वेनैव निवेदितम् । नास्तीति ज्ञापितमित्यर्थः । यदि वित्तं भवति तदा कथं दिगम्बरो भवति । अतो ज्ञेयं निर्धनोऽयमिति । किं बहुना हे बालमृगाक्षि पार्वति ! वरेषु वोढृषु । `वरौ जामातृवोढारौ` इति विश्वः । यद्रूपवित्तादिकं मृग्यते कन्यातद्बन्धुभिरन्विष्यते तत्त्रिलोचने त्र्यम्बके व्यस्तम् । एकमपि समस्तं मा भूदिति भावः । अस्ति किम् । नास्त्येवेत्यर्थः
Summary AI "O fawn-eyed one! His body has deformed eyes, his birth is obscure, and his wealth is revealed by his nakedness. That which is sought in bridegrooms—is any of it, even separately, present in the three-eyed one?"
सारांश AI कुरूप आँखें, अज्ञात कुल और दिगंबर होने से प्रकट निर्धनता; हे मृगनयनी, वर में जो गुण खोजे जाते हैं, क्या उन तीनों लोकों के स्वामी शिव में उनमें से एक भी है?
पदच्छेदः AI
वपुःवपुस् (१.१) His body
विरूपाक्षम्विरूपअक्षि (१.१) has deformed eyes
अलक्ष्यजन्मताअलक्ष्यजन्मन्ता (१.१) his birth is obscure
दिगम्बरत्वेनदिगम्बरत्व (३.१) by his nakedness
निवेदितम्निवेदित (नि√विद्+णिच्+क्त, १.१) is revealed
वसुवसु (१.१) his wealth
वरेषुवर (७.३) in bridegrooms
यत्यद् (१.१) That which
बालमृगाक्षिबालमृगअक्षि (८.१) O fawn-eyed one
मृग्यतेमृग्यते (√मृग् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is sought
तत्तद् (१.१) that
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
किम्किम् (१.१) ?
व्यस्तम्व्यस्त (वि√अस्+क्त, १.१) separately
अपिअपि even
त्रिलोचनेत्रिलोचन (७.१) in the three-eyed one
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पु र्वि रू पा क्ष क्ष्य न्म ता
दि म्ब त्वे नि वे दि तं सु
रे षु द्बा मृ गा क्षि मृ ग्य ते
स्ति किं व्य स्त पि त्रि लो ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.