द्वयं गतं संप्रति शोचनीयतां
समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावत-
स्त्वमस्य लोकस्य च नेत्रकौमुदी ॥

अन्वयः AI संप्रति कपालिनः समागम-प्रार्थनया द्वयम् शोचनीयताम् गतम् । कलावतः सा कान्तिमती कला च, अस्य लोकस्य नेत्र-कौमुदी त्वम् च ।
सञ्जीविनीटीका (मल्लिनाथः) द्वयमिति । पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया । क्रियमाणयेति शेषः । संप्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदाह-सा प्रागेव हरशिरोगता । अत्र सेति प्रसिद्धार्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे-प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते इति । कान्तिमती । नित्ययोगे मतुप् । कलावतश्चन्द्रस्य कला षोडशो भागश्चास्य लोकस्य नेत्रकौमुदी । नेत्रानन्दिनीत्यर्थः । त्वं च । कान्तिमतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या । संप्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यात्वं च निकृष्टाश्रयणादिति भावः
Summary AI "Now, by your prayer for union with the skull-bearer (Shiva), two things have become pitiable: that radiant digit of the moon (on his head), and you, who are the moonlight to the eyes of this world."
सारांश AI शिव को पति रूप में चाहने से अब दो चीजें अत्यंत दयनीय हो गई हैं—एक तो उनके मस्तक पर स्थित चंद्रमा की कला और दूसरी तुम, जो संसार के नेत्रों के लिए चांदनी के समान हो।
पदच्छेदः AI
द्वयम्द्वय (१.१) Two things
गतम्गत (√गम्+क्त, १.१) have reached
संप्रतिसंप्रति Now
शोचनीयताम्शोचनीयता (२.१) a pitiable state
समागमप्रार्थनयासमागमप्रार्थना (३.१) by the prayer for union
कपालिनःकपालिन् (६.१) with the skull-bearer (Shiva)
कलाकला (१.१) the digit
and
सातद् (१.१) that
कान्तिमतीकान्तिमती (१.१) radiant
कलावतःकलावत् (६.१) of the moon
त्वम्युष्मद् (१.१) you
अस्यइदम् (६.१) of this
लोकस्यलोक (६.१) world
and
नेत्रकौमुदीनेत्रकौमुदी (१.१) the moonlight to the eyes
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
द्व यं तं सं प्र ति शो नी तां
मा प्रा र्थ या पा लि नः
ला सा का न्ति ती ला
स्त्व स्य लो स्य ने त्र कौ मु दी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.