अयुक्तरूपं किमतः परं वद
त्रिनेत्रवक्षः सुलभं तवापि यत् ।
स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे
पदं चिताभस्मरजः करिष्यति ॥

अन्वयः AI अतः परम् अयुक्त-रूपम् किम्? वद । यत् तव अपि त्रि-नेत्र-वक्षः सुलभम् (भविष्यति), (तदा) अस्मिन् हरि-चन्दन-आस्पदे स्तन-द्वये चिता-भस्म-रजः पदम् करिष्यति ।
सञ्जीविनीटीका (मल्लिनाथः) अयुक्तेति । त्रिनेत्रवक्षः, त्र्यम्बकालिङगनमित्यर्थः । तव तत्संबन्धितया सुलभमपि सुप्रापं च । भवतीति शेषः । तवेति शेषे षष्ठी । `न लोकाव्यये-` त्यादिना कृद्योगलक्षणषष्ठ्या निषेधात् । अतः परमस्मात्त्रिनेत्रवक्षोलाभादन्यदयुक्तरूपमत्यन्तायुक्तं किं वद । न किंचिदित्यर्थः । `प्रशंसायां रूपप्` (अष्टाध्यायी ५.३.६६ ) इति रूपप्प्रत्ययः । कुतः । यद्यस्मात्कारणाद्धरिचन्दनास्पदे हरिचन्दनस्यास्पदे स्थानभूतेऽस्मिन्स्तनद्वये चिताभस्म श्मशानभस्म तदेव रजश्चूर्ण कर्तृ । पदं करिष्यति पदं निधास्यति । भर्तुर्भवस्य भस्माङ्गरागादिति भावः
Summary AI "Tell me, what could be more unsuitable than this? Since the chest of the three-eyed one will be accessible to you, the dust of funeral pyre ashes will make its place on this pair of breasts, which are fit for yellow sandalwood paste."
सारांश AI इससे अधिक अनुचित क्या होगा कि तुम्हारे इन स्तनों पर, जो चंदन के लेप के योग्य हैं, शिव के आलिंगन से चिता की भस्म का स्थान होगा?
पदच्छेदः AI
अयुक्तरूपम्युक्तरूप (१.१) unsuitable thing
किम्किम् (१.१) What
अतःअतस् than this
परम्पर (१.१) more
वदवद (√वद् कर्तरि लोट् (परस्मै.) म.पु. एक.) Tell me
त्रिनेत्रवक्षःत्रिनेत्रवक्षस् (१.१) the chest of the three-eyed one
सुलभम्सुलभ (१.१) will be accessible
तवयुष्मद् (६.१) to you
अपिअपि also
यत्यत् Since
स्तनद्वयेस्तनद्वय (७.१) on the pair of breasts
अस्मिन्इदम् (७.१) on this
हरिचन्दनास्पदेहरिचन्दनआस्पद (७.१) which are fit for yellow sandalwood paste
पदम्पद (२.१) its place
चिताभस्मरजःचिताभस्मन्रजस् (१.१) the dust of funeral pyre ashes
करिष्यतिकरिष्यति (√कृ कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will make
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
यु क्त रू पं कि तः रं
त्रि ने त्र क्षः सु भं वा पि यत्
स्त द्व ये ऽस्मि न्ह रि न्द ना स्प दे
दं चि ता स्म जः रि ष्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.