Loading data... On slow networks this could take a few minutes.
100%

चतुष्कपुष्पप्रकराविकीर्णयोः
परोऽपि को नाम तवानुमन्यते ।
अलक्तकाङ्कानि पदानि पादयो-
र्विकीर्णकेशासु परेतभूमिषु ॥

अन्वयः AI विकीर्ण-केशासु परेत-भूमिषु चतुष्क-पुष्प-प्रकर-अविकीर्णयोः पादयोः अलक्तक-अङ्कानि पदानि (स्थापनम्) परः अपि कः नाम तव अनुमन्यते?
सञ्जीविनीटीका (मल्लिनाथः) चतुष्केति । चतुष्के गृहविशेषे यः पुष्पप्रकरस्तत्राऽवकीर्णयोर्न्यस्तयोः । कुसुमास्तृतदिव्यभवनभूसंचारोचितयोरित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षारञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । `पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिह्नयोः` इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकार्णकेशासु । `अतत्स्थं तत्र दृष्टं च` इति वचनात् । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्` (अष्टाध्यायी ४.१.५४ ) इति विकल्पान्न ङीष् । परेतभूमिषु प्रेतभूमिषु । श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानुमन्यते । न कोऽपीत्यर्थः । नामेति कुत्सायाम् । पिनाकपाणिग्रहणे तस्य परेतभूसंचारित्वेन साहचर्यात्तवापि तत्र संचारोऽवश्यंभावीति भावः
Summary AI "Who, even a stranger, would approve of your lac-dyed footprints being placed on cremation grounds with scattered hair, when your feet are meant for courtyards strewn with heaps of flowers?"
सारांश AI फूलों से सजी वेदियों पर चलने योग्य तुम्हारे महावर लगे पैर जब श्मशान की केशों से भरी अपवित्र भूमि पर पड़ेंगे, तो कौन इसे उचित कहेगा?
पदच्छेदः AI
चतुष्कपुष्पप्रकराविकीर्णयोःचतुष्कपुष्पप्रकरविकीर्ण (६.२) meant for courtyards strewn with heaps of flowers
परःपर (१.१) a stranger
अपिअपि Even
कःकिम् (१.१) who
नामनाम indeed
तवयुष्मद् (६.१) your
अनुमन्यतेअनुमन्यते (अनु√मन् कर्तरि लट् (आत्मने.) प्र.पु. एक.) would approve of
अलक्तकाङ्कानिअलक्तकअङ्क (२.३) lac-dyed
पदानिपद (२.३) footprints
पादयोःपाद (६.२) of your feet
विकीर्णकेशासुविकीर्णकेश (७.३) with scattered hair
पदेतभूमिषुपदेतभूमि (७.३) on cremation grounds
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तु ष्क पु ष्प प्र रा वि की र्ण योः
रो ऽपि को ना वा नु न्य ते
क्त का ङ्का नि दा नि पा यो
र्वि की र्ण के शा सु रे भू मि षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.