Loading data... On slow networks this could take a few minutes.
100%

त्वमेव तावत्परिचिन्तय स्वयं
कदा चिदेते यदि योगमर्हतः ।
वधूदुकूलं कलहंसलक्षणं
गजाजिनं शोणितबिन्दुवर्षि च ॥

अन्वयः AI त्वम् एव तावत् स्वयम् परिचिन्तय । कलहंस-लक्षणम् वधू-दुकूलम् च शोणित-बिन्दु-वर्षि गज-अजिनम्, एते कदा चित् योगम् अर्हतः यदि?
सञ्जीविनीटीका (मल्लिनाथः) त्वमेवेति । हे गौरि ! त्वमेव स्वयमात्मना । तावदिति मात्रार्थे। यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदाहृतं च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति । कलहंसलक्षणं कलहंसचिह्नम् । `चिह्नं लक्ष्म च लक्ष्मणम्` इत्यमरः वध्वा नवोढाया दुकूलं वधूदुकूलम् । `वधूः स्नुषा मनोढा स्त्री` इति विश्वः । तथा शोणितबिन्दून्वर्षतीति यथोक्तम् । आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवासश्च । तत्पिनाकिन इत्याशयः । एते कदाचिज्जात्वपि योगं संगतिमर्हतो यद्यर्हतः किम् । एतत् त्त्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणकाले वधूवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु दुकूलधारिण्यास्तव कथं संघटिष्यत इति भावः
Summary AI "You yourself just consider for a moment: are these two ever suitable for union? A bridal silk garment marked with swans, and an elephant's hide dripping with drops of blood."
सारांश AI तुम स्वयं विचार करो, क्या हंसों के चित्रों वाले वधु के रेशमी वस्त्र और रक्त की बूंदें टपकाने वाले हाथी के चर्म का कभी कोई मेल हो सकता है?
पदच्छेदः AI
त्वम्युष्मद् (१.१) You
एवएव yourself
तावत्तावत् just
परिचिन्तयपरिचिन्तय (परि√चिन्त् कर्तरि लोट् (परस्मै.) म.पु. एक.) consider
स्वयम्स्वयम् for yourself
कदा चित्कदाचित् ever
एतेएतद् (१.२) these two
यदियदि if
योगम्योग (२.१) union
अर्हतःअर्हतः (√अर्ह् कर्तरि लट् (परस्मै.) प्र.पु. द्वि.) are suitable for
वधूदुकूलम्वधूदुकूल (१.१) A bridal silk garment
कलहंसलक्षणम्कलहंसलक्षण (१.१) marked with swans
गजाजिनम्गजअजिन (१.१) an elephant's hide
शोणितबिन्दुवर्षिशोणितबिन्दुवर्षिन् (√वृष्+णिनि, १.१) dripping with drops of blood
and
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
त्व मे ता त्प रि चि न्त स्व यं
दा चि दे ते दि यो र्ह तः
धू दु कू लं हं क्ष णं
जा जि नं शो णि बि न्दु र्षि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.