Loading data... On slow networks this could take a few minutes.
100%

अवस्तुनिर्बन्धपरे कथं नु ते
करोऽयमामुक्तविवाहकौतुकः ।
करेण शंभोर्वलयीकृताहिना
सहिष्यते तत्प्रथमावलम्बनम् ॥

अन्वयः AI अवस्तु-निर्बन्ध-परे, आमुक्त-विवाह-कौतुकः ते अयम् करः वलयी-कृत-अहिना शम्भोः करेण तत्-प्रथम-अवलम्बनम् कथम् नु सहिष्यते?
सञ्जीविनीटीका (मल्लिनाथः) अवस्त्विति । अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्यास्तस्याः संबुद्धिरवस्तुनिर्बन्धपरे पार्वति, आमुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य स तेऽयं करः । `कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले` इति शास्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोर्महादेवस्य करेण करणभूतेन । तदेव प्रथमं तत्प्रथमम् । अपरिचितत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं नु सहिष्यते । न कथंचिदपि सहिष्यत इत्यर्थः । अग्रतो यद्भावि तद् दूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः
Summary AI "O you who are insistent on an unworthy object! How will this hand of yours, for which the auspicious wedding thread is intended, endure that first clasp by the hand of Shambhu, which has a snake made into a bracelet?"
सारांश AI व्यर्थ की जिद करने वाली पार्वती, तुम्हारा यह कोमल हाथ जिस पर विवाह का कंगन बंधना चाहिए, सर्पों से लिपटे हुए शिव के हाथ को पहली बार कैसे सहन कर पाएगा?
पदच्छेदः AI
अवस्तुनिर्बन्धपरेअवस्तुनिर्बन्धपरा (८.१) O you who are insistent on an unworthy object
कथम्कथम् How
नुनु indeed
तेयुष्मद् (६.१) your
करःकर (१.१) hand
अयम्इदम् (१.१) this
आमुक्तविवाहकौतुकःआमुक्तविवाहकौतुक (१.१) for which the auspicious wedding thread is intended
करेणकर (३.१) by the hand
शंभोःशम्भु (६.१) of Shambhu
वलयीकृताहिनावलयीकृतअहि (३.१) which has a snake made into a bracelet
सहिष्यतेसहिष्यते (√सह् भावकर्मणोः लृट् (आत्मने.) प्र.पु. एक.) will be endured
तत्प्रथमावलम्बनम्तद्प्रथमअवलम्बन (१.१) that first clasp
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
स्तु नि र्ब न्ध रे थं नु ते
रो ऽय मा मु क्त वि वा कौ तु कः
रे शं भो र्व यी कृ ता हि ना
हि ष्य ते त्प्र मा म्ब नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.