अथाह वर्णी विदितो महेश्वर-
स्तदर्थिनी त्वं पुनरेव वर्तसे ।
अमङ्गलाभ्यासरतिं विचिन्त्य तं
तवानुवृत्तिं न च कर्तुमुत्सहे ॥

अन्वयः AI अथ वर्णी आह, "महेश्वरः विदितः । त्वम् पुनः एव तत्-अर्थिनी वर्तसे । तम् अमङ्गल-अभ्यास-रतिम् विचिन्त्य तव अनुवृत्तिम् कर्तुम् च न उत्सहे ।"
सञ्जीविनीटीका (मल्लिनाथः) अथेति । अथ वर्णी ब्रह्मचारी । `वर्णिनो ब्रह्मचारिणः` इत्यमरः (अमरकोशः २.७.४६ ) । आह । उवाचेत्यर्थः । `आहेति भूतार्थे लट्प्रयोगो भ्रान्तमूलः` इत्याह वामनः । किमित्याह-महेश्वरो महादेवो विदितः । मया ज्ञायत इत्यर्थः । बुद्धर्थत्वाद्वर्तमाने क्तप्रत्ययः, तद्योगात्षष्ठी च । येन त्वं प्राग्भग्नमनोरथा कृतेतिभावः । पुनरेव त्वं तमीश्वरमर्थयसे तदर्थिन्येव तत्कामैव प्रवर्तसे । तत्प्रभावमनुभूयापीति भावः । अनुसरणे को दोषस्तत्राह- अमङ्गलाभ्यासेऽमङ्गलाचारे रतिर्यस्य तं यथोक्तमीश्वरं विचिन्त्य वितवानुवृत्तिमनुसरणं कर्तुं नोत्सहे । नानुमन्तुं शक्नोमीत्यर्थः
Summary AI Then the brahmachari said: "Maheshvara is well-known. And you are still desirous of him. Considering him who delights in inauspicious practices, I cannot bring myself to approve of your pursuit."
सारांश AI ब्रह्मचारी ने कहा—यदि तुम उन महेश को चाहती हो, तो मैं तुम्हारे इस निर्णय का समर्थन नहीं कर सकता क्योंकि वे सदैव अमंगलकारी वस्तुओं में ही रमे रहते हैं।
पदच्छेदः AI
अथअथ Then
आहआह (√अह् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) said
वर्णीवर्णिन् (१.१) the brahmachari
विदितःविदित (√विद्+क्त, १.१) is known
महेश्वरःमहेश्वर (१.१) Maheshvara
तदर्थिनीतद्–अर्थिनी (१.१) desirous of him
त्वम्युष्मद् (१.१) you
पुनःपुनर् still
एवएव indeed
वर्तसेवर्तसे (√वृत् कर्तरि लट् (आत्मने.) म.पु. एक.) are
अमङ्गलाभ्यासरतिम्अमङ्गलअभ्यासरति (२.१) who delights in inauspicious practices
विचिन्त्यविचिन्त्य (वि√चिन्त्+ल्यप्) Considering
तम्तद् (२.१) him
तवयुष्मद् (६.१) your
अनुवृत्तिम्अनुवृत्ति (२.१) pursuit
not
and
कर्तुम्कर्तुम् (√कृ+तुमुन्) to do (approve)
उत्सहेउत्सहे (उद्√सह् कर्तरि लट् (आत्मने.) उ.पु. एक.) I am able
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था र्णी वि दि तो हे श्व
स्त र्थि नी त्वं पु रे र्त से
ङ्ग ला भ्या तिं वि चि न्त्य तं
वा नु वृ त्तिं र्तु मु त्स हे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.