Loading data... On slow networks this could take a few minutes.
100%

यथा श्रुतं वेदविदां वर त्वया
जनोऽयमुच्चैःपदलङ्घनोत्सुकः ।
तपः किलेदं तदवाप्तिसाधनं
मनोरथानामगतिर्न विद्यते ॥

अन्वयः AI वेद-विदाम् वर, त्वया यथा श्रुतम्, अयम् जनः उच्चैः-पद-लङ्घन-उत्सुकः (अस्ति) । इदम् तपः किल तत्-अवाप्ति-साधनम् । मनोरथानाम् अगतिः न विद्यते ।
सञ्जीविनीटीका (मल्लिनाथः) यथेति । हे वेदविदांवर वैदिकश्रेष्ठ ! त्वया यथा श्रुतां सम्यक् श्रुतम् । श्रुतार्थमेवाह-अयं जनः । स्वयमित्यर्थः । उच्चैःपदस्य शिवलाभरूपोन्नतस्थानस्य लङ्घन आक्रमण उत्सुकः । किमत्रायुक्तमित्यत्राह- इदं तपस्तदवाप्तेस्तस्योच्चैः पदस्यावाप्तेः प्राप्तेः साधनं किलेत्यलीके । अतितुच्छत्वादसाधकमेवेत्यर्थः । तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चतीत्याशयेनाह-मनोरथानां कामानामगतिरविषयो न विद्यते । न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्त इति भावः
Summary AI "O best among the knowers of the Vedas, just as you have heard, this person (I) is eager to attain a high position. Indeed, this penance is the means for its attainment. For desires, there is no path that is impassable."
सारांश AI पार्वती ने कहा—हे वेदवेत्ता, आपने जो सुना वह सत्य है। मैं शिव के उच्च पद को प्राप्त करने के लिए ही यह तपस्या कर रही हूँ; संकल्प के लिए कुछ भी असंभव नहीं है।
पदच्छेदः AI
यथायथा Just as
श्रुतम्श्रुत (√श्रु+क्त, १.१) has been heard
वेदविदाम्वेदविद् (६.३) of the knowers of the Vedas
वरवर (८.१) O best
त्वयायुष्मद् (३.१) by you
जनःजन (१.१) person
अयम्इदम् (१.१) this (I)
उच्चैःपदलङ्घनोत्सुकःउच्चैःपदलङ्घनउत्सुक (१.१) is eager to attain a high position
तपःतपस् (१.१) penance
किलकिल Indeed
इदम्इदम् (१.१) this
तदवाप्तिसाधनम्तद्अवाप्तिसाधन (१.१) is the means for its attainment
मनोरथानाम्मनोरथ (६.३) For desires
अगतिःगति (१.१) impassable path
no
विद्यतेविद्यते (√विद् कर्तरि लट् (आत्मने.) प्र.पु. एक.) exists
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था श्रु तं वे वि दां त्व या
नो ऽय मु च्चैः ङ्घ नो त्सु कः
पः कि ले दं वा प्ति सा नं
नो था ना ति र्न वि द्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.