न वेद्मि स प्रार्थितदुर्लभः कदा
सखीभिरस्रोत्तरमीक्षितामिमाम् ।
तपःकृशामभ्युपपत्स्यते सखीं
वृषेव सीतां तदवग्रहक्षताम् ॥

अन्वयः AI प्रार्थित-दुर्लभः सः कदा तपः-कृशाम्, सखीभिः अस्र-उत्तरम् ईक्षिताम् इमाम् सखीम्, तत्-अवग्रह-क्षताम् सीताम् वृषा इव, अभ्युपपत्स्यते, (इति) न वेद्मि ।
सञ्जीविनीटीका (मल्लिनाथः) नेति । प्रार्थितः सन्दुर्लभः स देवस्तपःकृशां तपसा कृशां क्षीणामत एव सखीभिरस्त्रोत्तरमश्रुप्रधानं यथा भवति तथेक्षितामिमां नः सखीं तस्येन्द्रस्यावग्रहेणानावृष्ट्या क्षतां पीडिताम् । `वृष्टिर्वर्षं तद्विघातोऽवग्रहावग्रहौ समौ` इत्यमरः (अमरकोशः २.९.१५ ) । अवग्रहः । वर्षप्रतिबन्ध इत्यर्थः । सीतां कृष्टभुवम् । `सीता लाङ्गलपद्धतिः` इत्यमरः (अमरकोशः २.९.१५ ) । वृषा वासव इव । `वासवो वृत्रहा वृषा` इत्यमरः (अमरकोशः २.९.१५ ) । कदाभ्युपपत्स्यते कदानुग्रहिष्यति न वेद्मि । अत्र वाक्यार्थः कर्म । तदवग्रहक्षतामित्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्यापत्तेस्तदिति भिन्नं पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः
Summary AI I do not know when that one (Shiva), who is difficult to obtain even when prayed for, will favor this friend of mine—emaciated by penance and tearfully watched by her friends—just as rain favors a furrow damaged by drought.
सारांश AI ब्रह्मचारी सोचता है कि दुर्लभ शिव, सखियों द्वारा आंसुओं के साथ देखी जाने वाली और तपस्या से दुर्बल पार्वती को, वर्षा द्वारा सूखे से पीड़ित भूमि के समान, कब स्वीकार करेंगे।
पदच्छेदः AI
not
वेद्मिवेद्मि (√विद् कर्तरि लट् (परस्मै.) उ.पु. एक.) I know
सःतद् (१.१) he
प्रार्थितदुर्लभःप्रार्थित (√प्रार्थ्+क्त)दुर्लभ (१.१) who is difficult to obtain even when prayed for
कदाकदा when
सखीभिःसखि (३.३) by her friends
अस्रोत्तरम्अस्रउत्तर (२.१) tearfully
ईक्षिताम्ईक्षित (√ईक्ष्+क्त, २.१) watched
इमाम्इदम् (२.१) this
तपःकृशाम्तपस्कृश (२.१) emaciated by penance
अभ्युपपत्स्यतेअभ्युपपत्स्यते (अभि+उप√पद् कर्तरि लृट् (आत्मने.) प्र.पु. एक.) will favor
सखीम्सखि (२.१) friend
वृषावृषन् (१.१) rain
इवइव like
सीताम्सीता (२.१) a furrow
तदवग्रहक्षताम्तद्अवग्रहक्षत (√क्षन्+क्त, २.१) damaged by that drought
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वे द्मि प्रा र्थि दु र्ल भः दा
खी भि स्रो त्त मी क्षि ता मि माम्
पः कृ शा भ्यु त्स्य ते खीं
वृ षे सी तां ग्र क्ष ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.