सखी तदीया तमुवाच वर्णिनं
निबोध साधो तव चेत्कुतूहलम् ।
यदर्थमम्भोजमिवोष्णवारणं
कृतं तपःसाधनमेतया वपुः ॥

अन्वयः AI तदीया सखी तम् वर्णिनम् उवाच, "साधो, तव कुतूहलम् चेत्, निबोध । यत्-अर्थम् एतया वपुः उष्ण-वारणम् अम्भोजम् इव तपः-साधनम् कृतम् ।"
सञ्जीविनीटीका (मल्लिनाथः) सखीति ॥ तस्याः पार्वत्या इयं तदीया सखी वयस्यातम् । `वर्णः प्रशस्तः` इति क्षीरस्वामी । सोऽस्यास्तीति वर्णी तं ब्रह्मचारिणम् । `वर्णाद्ब्रह्मचारिणि` (अष्टाध्यायी ५.२.१३४ ) इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति । हे साधो विद्वन् ! तव कुतूहलं चेत् । श्रोतुमस्तीति शेषः । तर्हि निबोधावगच्छ । आकर्णयेत्यर्थः । `बुध अवगमने` इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं किं तदाह-यस्मै लाभायेदं यदर्थम् । `अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्याम्भोजं पद्ममुष्णवारणमातपत्रमिव वपुः शरीरं तपःसाधनं कृतम् । तपःप्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः
Summary AI Her friend said to the brahmachari, "O noble one, if you are curious, listen. I will tell you for what purpose this body of hers, which is naturally like a lotus that protects from heat, has been made an instrument of penance."
सारांश AI उनकी सखी ने उस ब्रह्मचारी से कहा—हे साधु! यदि आप जानना चाहते हैं कि इन्होंने अपने सुकोमल शरीर को इस कठोर तपस्या में क्यों लगाया है, तो सुनिए।
पदच्छेदः AI
सखीसखी (१.१) The friend
तदीयातदीय (१.१) of hers
तम्तद् (२.१) to him
उवाचउवाच (√वच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) said
वर्णिनम्वर्णिन् (२.१) the brahmachari
निबोधनिबोध (नि√बुध् कर्तरि लोट् (परस्मै.) म.पु. एक.) know
साधोसाधु (८.१) O noble one
तवयुष्मद् (६.१) your
चेत्चेत् if
कुतूहलम्कुतूहल (१.१) curiosity (exists)
यदर्थम्यदर्थम् for which purpose
अम्भोजम्अम्भोज (१.१) a lotus
इवइव like
उष्णवारणम्उष्णवारण (१.१) a protection from heat
कृतम्कृत (√कृ+क्त, १.१) has been made
तपःसाधनम्तपस्साधन (१.१) an instrument of penance
एतयाएतद् (३.१) by her
वपुःवपुस् (१.१) this body
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
खी दी या मु वा र्णि नं
नि बो सा धो चे त्कु तू लम्
र्थ म्भो मि वो ष्ण वा णं
कृ तं पः सा मे या पुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.