Loading data... On slow networks this could take a few minutes.
100%

कियच्चिरं श्राम्यसि गौरि विद्यते
ममापि पूर्वाश्रमसंचितं तपः ।
तदर्धभागेन लभस्व काङ्क्षितं
वरं तमिच्छामि च साधु वेदितुम् ॥

अन्वयः AI गौरि, कियत् चिरम् श्राम्यसि? मम अपि पूर्व-आश्रम-संचितम् तपः विद्यते । तत्-अर्ध-भागेन काङ्क्षितम् वरम् लभस्व । च तम् साधु वेदितुम् इच्छामि ।
सञ्जीविनीटीका (मल्लिनाथः) कियदिति ॥ हे गौरि, कियत्किंप्रमाणकम् । किमवधिकमित्यर्थः । चिरं श्राम्यसि तपस्यसि । अत्यन्तसंयोगे द्वितीया । ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संपादितं तपो विद्यते अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनैकदेशेन काङ्क्षितमिष्टं वरमुपयन्तारं लभस्व । तं वरं साधु सम्यग्वेदितुं ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति तदा संमतिरिति भावः
Summary AI The brahmachari asks, "O Gauri, how long will you toil? I too have penance accumulated from a previous stage of life. With half of it, obtain your desired boon. And I wish to know that boon well."
सारांश AI हे गौरी! तुम और कितना कष्ट सहोगी? मेरे पास पूर्व संचित तपस्या का फल है। तुम उसका आधा भाग लेकर अपना इच्छित वर प्राप्त करो, पर मैं उस वर का नाम जानना चाहता हूँ।
पदच्छेदः AI
कियत्कियत् how
चिरम्चिरम् long
श्राम्यसिश्राम्यसि (√श्रम् कर्तरि लट् (परस्मै.) म.पु. एक.) are you toiling
गौरिगौरी (८.१) O Gauri
विद्यतेविद्यते (√विद् कर्तरि लट् (आत्मने.) प्र.पु. एक.) there is
ममअस्मद् (६.१) my
अपिअपि also
पूर्वाश्रमसंचितम्पूर्वआश्रमसंचित (सम्√चि+क्त, १.१) accumulated in a previous stage of life
तपःतपस् (१.१) penance
तदर्धभागेनतद्अर्धभाग (३.१) by a half share of that
लभस्वलभस्व (√लभ् कर्तरि लोट् (आत्मने.) म.पु. एक.) obtain
काङ्क्षितम्काङ्क्षित (√काङ्क्ष्+क्त, २.१) desired
वरम्वर (२.१) boon
तम्तद् (२.१) that
इच्छामिइच्छामि (√इष् कर्तरि लट् (परस्मै.) उ.पु. एक.) I wish
and
साधुसाधु well
वेदितुम्वेदितुम् (√विद्+तुमुन्) to know
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
कि च्चि रं श्रा म्य सि गौ रि वि द्य ते
मा पि पू र्वा श्र सं चि तं पः
र्ध भा गे स्व का ङ्क्षि तं
रं मि च्छा मि सा धु वे दि तुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.