अवैमि सौभाग्यमदेन वञ्चितं
तव प्रियं यश्चतुरावलोकिनः ।
करोति लक्ष्यं चिरमस्य चक्षुषो
न वक्त्रमात्मीयमरालपक्ष्मणः ॥

अन्वयः AI यः चतुर-अवलोकिनः अराल-पक्ष्मणः तव आत्मीयम् वक्त्रम् अस्य चक्षुषः चिरम् लक्ष्यम् न करोति, (तम्) तव प्रियम् सौभाग्य-मदेन वञ्चितम् अवैमि ।
सञ्जीविनीटीका (मल्लिनाथः) अवैमीति । तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण कर्त्रा । वञ्चितं विप्रलब्धमवैमि वेद्मि । यः प्रियश्चतुरं मधुरमवलोकत इति चतुरावलोकिनोऽरालपक्ष्मणः कुटिलरोम्णः । `अरालं वृजिनं जिह्मम्` इत्यमरः (अमरकोशः ३.१.७० ) । अस्य त्वदीयस्य चक्षुष आत्मीयं वक्त्रं मुखं चिरं लक्ष्यं विषयं न करोति दृष्टिपथं न गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः
Summary AI "I consider your beloved, who does not for long make your face—with its charming glances and curved eyelashes—the object of his gaze, to be utterly deceived by the pride of his own good fortune."
सारांश AI मैं मानता हूँ कि तुम्हारा वह प्रिय अपने रूप के मद में चूर है, जो तुम्हारी सुंदर आँखों और चंचल भौंहों वाले इस मुख को एकटक नहीं निहारता।
पदच्छेदः AI
अवैमिअवैमि (अव√इ कर्तरि लट् (परस्मै.) उ.पु. एक.) I consider
सौभाग्यमदेनसौभाग्यमद (३.१) by the pride of his good fortune
वञ्चितम्वञ्चित (√वञ्च्+क्त, २.१) deceived
तवयुष्मद् (६.१) your
प्रियम्प्रिय (२.१) beloved
यःयद् (१.१) who
चतुरावलोकिनःचतुरअवलोकिन् (६.१) of you, who has charming glances
करोतिकरोति (√कृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) makes
लक्ष्यम्लक्ष्य (२.१) the target
चिरम्चिरम् for a long time
अस्यइदम् (६.१) his
चक्षुषःचक्षुस् (६.१) of the eye
not
वक्त्रम्वक्त्र (२.१) face
आत्मीयम्आत्मीय (२.१) your own
अरालपक्ष्मणःअरालपक्ष्मन् (६.१) of you, who has curved eyelashes
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वै मि सौ भा ग्य दे ञ्चि तं
प्रि यं श्च तु रा लो कि नः
रो ति क्ष्यं चि स्य क्षु षो
क्त्र मा त्मी रा क्ष्म णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.