Loading data... On slow networks this could take a few minutes.
100%

निवेदितं निश्वसितेन सोष्मणा
मनस्तु मे संशयमेव गाहते ।
न दृश्यते प्रार्थयितव्य एव ते
भविष्यति प्रार्थितदुर्लभः कथम् ॥

अन्वयः AI स-उष्मणा निश्वसितेन (किंचित्) निवेदितम् । तु मे मनः संशयम् एव गाहते । ते प्रार्थयितव्यः एव न दृश्यते । प्रार्थित-दुर्लभः कथम् भविष्यति?
सञ्जीविनीटीका (मल्लिनाथः) निवेदितमिति ॥ सोष्मणा निश्वसितेन निश्वासवायुना निवेदितम् । चिन्तानुभावेनोष्णौच्छ्वासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसनेनेत्याह-मनस्तु तथापि मे संशयमेव गाहते प्राप्नोति । कुतः ? ते तव । `कृत्यानां कर्तरि वा` (अष्टाध्यायी २.३.७१ ) इति षष्ठी । प्रार्थयितव्यः प्रार्थयितुमर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो यो दुर्लभः स कथं भविष्यति ? नास्त्येवेत्यर्थः
Summary AI "Your warm sigh indicates something, but my mind enters into doubt. I cannot even see anyone worthy of being sought by you. How then can there be someone who is difficult to obtain even when you desire him?"
सारांश AI तुम्हारी गर्म आहें तुम्हारे मन की बात बता रही हैं, पर मुझे संशय है। तुम्हारी सुंदरता को देखते हुए ऐसा कोई पुरुष नहीं दिखता जो तुम्हें न चाहे या जिसे पाना तुम्हारे लिए कठिन हो।
पदच्छेदः AI
निवेदितम्निवेदित (नि√विद्+णिच्+क्त, १.१) it is indicated
निश्वसितेननिश्वसित (३.१) by your sigh
सोष्मणाउष्मन् (३.१) which is warm
मनःमनस् (१.१) mind
तुतु but
मेअस्मद् (६.१) my
संशयम्संशय (२.१) doubt
एवएव only
गाहतेगाहते (√गाह् कर्तरि लट् (आत्मने.) प्र.पु. एक.) enters into
not
दृश्यतेदृश्यते (√दृश् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is seen
प्रार्थयितव्यःप्रार्थयितव्य (प्र√अर्थ्+णिच्+तव्य, १.१) one who should be sought by you
एवएव even
तेयुष्मद् (३.१) by you
भविष्यतिभविष्यति (√भू कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will be
प्रार्थितदुर्लभःप्रार्थितदुर्लभ (१.१) one who is difficult to obtain even when sought
कथम्कथम् how
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि वे दि तं नि श्व सि ते सो ष्म णा
स्तु मे सं मे गा ते
दृ श्य ते प्रा र्थ यि व्य ते
वि ष्य ति प्रा र्थि दु र्ल भः थम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.