Loading data... On slow networks this could take a few minutes.
100%

दिवं यदि प्रार्थयसे वृथा श्रमः
पितुः प्रदेशास्तव देवभूमयः ।
अथोपयन्तारमलं समाधिना
न रत्नमन्विष्यति मृग्यते हि तत् ॥

अन्वयः AI यदि दिवम् प्रार्थयसे, (तर्हि तव) श्रमः वृथा । तव पितुः प्रदेशाः देव-भूमयः (सन्ति) । अथ उपयन्तारम् (प्रार्थयसे चेत्), समाधिना अलम् । रत्नम् न अन्विष्यति, तत् हि मृग्यते ।
सञ्जीविनीटीका (मल्लिनाथः) दिवमिति ॥ दिवं स्वर्गं प्रार्थयसे कामयसे यदि तर्हि श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे ततः श्रमं मा कार्षीः । तव पितुर्हिमवतः प्रदेशा देवभूमयः स्वर्गपदार्थाः इत्यर्थः । अथोपयन्तारं वरं प्रार्थयसे तर्हि समाधिना तपसालम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया । तथाहि । रत्नं कर्तृ । नान्विष्यति न मृगयते । ग्रहीतारमिति शेषः । किंतु तद्रत्नं मृग्यते ग्रहीतृभिरिति शेषः । न हि वरार्थं त्वया तपसि वर्तितव्यं किंतु तेनैव त्वदर्थमिति भावः
Summary AI "If you desire heaven, your effort is in vain, for your father's territories are the lands of the gods. If you seek a husband, enough of this penance. A jewel does not seek; it is sought."
सारांश AI यदि तुम्हारी इच्छा स्वर्ग की है, तो व्यर्थ श्रम मत करो क्योंकि हिमालय स्वयं देवभूमि है। यदि पति चाहिए, तो भी तप अनावश्यक है; रत्न किसी को खोजता नहीं, वह स्वयं खोजा जाता है।
पदच्छेदः AI
दिवम्दिव् (२.१) heaven
यदियदि if
प्रार्थयसेप्रार्थयसे (प्र√अर्थ् +णिच् कर्तरि लट् (आत्मने.) म.पु. एक.) you desire
वृथावृथा in vain
श्रमःश्रम (१.१) the effort
पितुःपितृ (६.१) your father's
प्रदेशाःप्रदेश (१.३) territories
तवयुष्मद् (६.१) your
देवभूमयःदेवभूमि (१.३) are the lands of the gods
अथअथ or if
उपयन्तारम्उपयन्तृ (उप√यम्+तृच्, २.१) a husband
अलम्अलम् enough of
समाधिनासमाधि (३.१) this penance
not
रत्नम्रत्न (१.१) a jewel
अन्विष्यतिअन्विष्यति (अनु√इष् कर्तरि लट् (परस्मै.) प्र.पु. एक.) does seek
मृग्यतेमृग्यते (√मृग् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) it is sought
हिहि for
तत्तद् (१.१) it
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
दि वं दि प्रा र्थ से वृ था श्र मः
पि तुः प्र दे शा स्त दे भू यः
थो न्ता लं मा धि ना
त्न न्वि ष्य ति मृ ग्य ते हि तत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.