अलभ्यशोकाभिभवेयमाकृति-
र्विमानना सुभ्रु कुतः पितुर्गृहे ।
पराभिमर्शो न तवास्ति कः करं
प्रसारयेत्पन्नगरत्नसूचये ॥

अन्वयः AI सुभ्रु, इयम् आकृतिः अलभ्य-शोक-अभिभवा । पितुः गृहे विमानना कुतः? तव पर-अभिमर्शः न अस्ति । पन्नग-रत्न-सूचये कः करम् प्रसारयेत्?
सञ्जीविनीटीका (मल्लिनाथः) अलभ्येति । हे सुभ्रु ! इयं त्वदीयाकृतिर्मूर्तिरलभ्यो लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता । दृश्यत इति शेषः । असम्भावितश्चायमर्थ इत्याह-पितुर्गृहे विमाननावमानः कुतः । न सम्भाव्यत एवेत्यर्थः । `सुभ्रु ! कुतस्तातगृहेऽवमाननम्` इति पाठान्तरकरणं तु साध्वसमेवोक्तोपपत्तिसम्भवात् । अन्यत्रापि `सुभ्रु ! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्` । इत्यादिप्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेत्यलं गोष्ठीभिः । न चान्यस्माद्भावीत्याह-पराभिमर्शः परघर्षणं तु तव नास्ति । पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । `क्रियार्थोपददस्य च कर्मणि स्थानिनः` इति चतुर्थी । करं हस्तं कः प्रसारयेत् `सुभ्रु` इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् `नेयङुवङ्स्थानावस्त्री` (अष्टाध्यायी १.४.४ ) इति नदीसंज्ञाप्रतिषेधात्, `अम्बार्थनद्योर्ह्रस्वः` इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु `अप्राणिजातेश्चारज्ज्वादीनाम्` इत्यत्र `अलाबूः` `कर्कन्धूः` इत्युकारन्तस्याप्यूङ्प्रत्ययमुदाजहार भाष्यकारः । एतस्मादेव ज्ञापकात्क्वचिदूकारन्तस्याप्यूङन्तत्वान्नदीत्वे ह्रस्वत्वमित्याहुः । अतएवाह वामनः- `ऊकारादप्यूङ्प्रकृतेः` इति
Summary AI "O beautiful-browed one, this form of yours cannot be overcome by grief. How could there be disrespect in your father's house? Insult from another is impossible for you. Who would dare stretch a hand for the jewel on a serpent's head?"
सारांश AI तुम्हारा यह रूप शोक के योग्य नहीं है। पिता के घर में तुम्हारा अपमान असंभव है। किसी के द्वारा उत्पीड़न की आशंका भी नहीं है, क्योंकि सर्प की मणि को छूने का साहस कौन करेगा?
पदच्छेदः AI
अलभ्यशोकाभिभवानञ्लभ्यशोकअभिभव (१.१) this form of yours is incapable of being overcome by grief
इयम्इदम् (१.१) this
आकृतिःआकृति (१.१) form
विमाननाविमानना (१.१) disrespect
सुभ्रुसुभ्रू (८.१) O one with beautiful eyebrows
कुतःकुतः from where?
पितुःपितृ (६.१) of your father
गृहेगृह (७.१) in the house
पराभिमर्शःपरअभिमर्श (१.१) insult from another
not
तवयुष्मद् (६.१) your
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
कःकिम् (१.१) who
करम्कर (२.१) hand
प्रसारयेत्प्रसारयेत् (प्र√सृ +णिच् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) would stretch out
पन्नगरत्नसूचयेपन्नगरत्नसूचि (४.१) for the jewel on a serpent's head
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
भ्य शो का भि वे मा कृ ति
र्वि मा ना सु भ्रु कु तः पि तु र्गृ हे
रा भि र्शो वा स्ति कः रं
प्र सा ये त्प न्न त्न सू ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.