Loading data... On slow networks this could take a few minutes.
100%

कुले प्रसूतिः प्रथमस्य वेधस-
स्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
अमृग्यमैश्वर्यसुखं नवं वय-
स्तपःफलं स्यात्किमतः परं वद ॥

अन्वयः AI प्रथमस्य वेधसः कुले प्रसूतिः, त्रि-लोक-सौन्दर्यम् इव उदितम् वपुः, अमृग्यम् ऐश्वर्य-सुखम्, नवम् वयः (च अस्ति) । अतः परम् तपः-फलम् किम् स्यात्? वद ।
सञ्जीविनीटीका (मल्लिनाथः) कुल इति । प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्ववाये प्रसूतिरुत्पत्तिः । `यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः` इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रयाणां लोकानां सौन्दर्यमिवोदितमेकत्र समाहृतम् ऐश्वर्यसुखं संपत्सुखममृग्यमन्वेषणीयं न भवति । किन्तु सिद्धमेवेत्यर्थः । वयो नवम् । यौवनमित्यर्थः । अतः परमतोऽन्यत्किं तपःफलं स्याद्वद । अस्ति चेदिति शेषः । किञ्चिदस्तीत्यर्थः
Summary AI "You have birth in the family of the first Creator, a body like the manifested beauty of the three worlds, the happiness of sovereignty that needs no seeking, and youthful age. Tell me, what fruit of penance could be higher than this?"
सारांश AI तुम्हारा जन्म ब्रह्मा के कुल में हुआ है, तुम्हारा रूप त्रिलोक का सौंदर्य है, तुम्हारे पास अपार ऐश्वर्य और नवीन यौवन है। बताओ, तपस्या का इससे अधिक फल और क्या होगा?
पदच्छेदः AI
कुलेकुल (७.१) in the family
प्रसूतिःप्रसूति (प्र√सू+क्तिन्, १.१) birth
प्रथमस्यप्रथम (६.१) of the first
वेधसःवेधस् (६.१) of the Creator
त्रिलोकसौन्दर्यम्त्रिलोकसौन्दर्य (१.१) the collected beauty of the three worlds
इवइव like
उदितम्उदित (उद्√इ+क्त, १.१) manifested
वपुःवपुस् (१.१) body
अमृग्यम्नञ्मृग्य (१.१) not to be sought
ऐश्वर्यसुखम्ऐश्वर्यसुख (१.१) the happiness of sovereignty
नवंनव (१.१) youthful
वयःवयस् (१.१) age
तपःफलम्तपस्फल (१.१) the fruit of penance
स्यात्स्यात् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) could be
किम्किम् (१.१) what
अतःअतः than this
परम्पर (१.१) higher
वदवद (√वद् कर्तरि लोट् (परस्मै.) म.पु. एक.) tell
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
कु ले प्र सू तिः प्र स्य वे
स्त्रि लो सौ न्द र्य मि वो दि तं पुः
मृ ग्य मै श्व र्य सु खं वं
स्त पः लं स्या त्कि तः रं
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.