Loading data... On slow networks this could take a few minutes.
100%

अतोऽत्र किंचिद्भवतीं बहुक्षमां
द्विजातिभावादुपपन्नचापलः ।
अयं जनः प्रष्टुमनास्तपोधने
न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥

अन्वयः AI तपोधने, अतः अत्र द्विजाति-भावात् उपपन्न-चापलः अयम् जनः बहु-क्षमाम् भवतीम् किंचित् प्रष्टु-मनाः (अस्ति) । रहस्यम् न चेत्, प्रतिवक्तुम् अर्हसि ।
सञ्जीविनीटीका (मल्लिनाथः) अत इति । हे तपोधने ! अतः सख्याद्धेतोरत्र बहुक्षमाम् । बहूक्तिसहाम् यद्वा क्षमावतीम् । भवतीं त्वां द्विजातिभावाद् ब्राह्मणत्वादुपपन्नचापलः सुलभधार्ष्ट्योऽयं जनः । स्वयमित्यर्थः । किंचित्प्रष्टुं मनो यस्य स किञ्चित्प्रष्टुमनाः प्रष्टुकामः । `तुं काममनसोरपी` ति मकारलोपः । रहसि भवं रहस्यं गोप्यं न चेत्प्रतिवक्तुमर्हसि
Summary AI "Therefore, O you whose wealth is penance, this person (I), my forwardness being excusable due to my Brahmin status, wishes to ask you, the very forbearing one, something. If it is not a secret, you should please answer."
सारांश AI हे तपस्विनी! ब्राह्मण होने के कारण मैं उत्सुकतावश आपसे कुछ पूछना चाहता हूँ। यदि यह कोई रहस्य न हो, तो कृपया उत्तर दें।
पदच्छेदः AI
अतःअतः therefore
अत्रअत्र in this matter
किंचित्किंचित् something
भवतीम्भवत् (२.१) you (formal)
बहुक्षमाम्बहुक्षमा (२.१) the very forbearing one
द्विजातिभावात्द्विजातिभाव (५.१) due to being a Brahmin
उपपन्नचापलःउपपन्न (उप√पद्+क्त)चापल (१.१) one whose forwardness is excusable
अयम्इदम् (१.१) this
जनःजन (१.१) person (I)
प्रष्टुमनाःप्रष्टुम् (√प्रछ्+तुमुन्)मनस् (१.१) is desirous of asking
तपोधनेतपस्धन (८.१) O you whose wealth is penance
not
चेत्चेत् if
रहस्यम्रहस्य (१.१) a secret
प्रतिवक्तुम्प्रतिवक्तुम् (प्रति√वच्+तुमुन्) to answer
अर्हसिअर्हसि (√अर्ह् कर्तरि लट् (परस्मै.) म.पु. एक.) you should
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तो ऽत्र किं चि द्भ तीं हु क्ष मां
द्वि जा ति भा वा दु न्न चा लः
यं नः प्र ष्टु ना स्त पो ने
चे द्र स्यं प्र ति क्तु र्ह सि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.