प्रयुक्तसत्कारविशेषमात्मना
न मां परं संप्रतिपत्तुमर्हसि ।
यतः सतां संनतगात्रि संगतं
मनीषिभिः साप्तपदीनमुच्यते ॥

अन्वयः AI संनत-गात्रि, आत्मना प्रयुक्त-सत्कार-विशेषम् माम् परम् संप्रतिपत्तुम् न अर्हसि । यतः मनीषिभिः सताम् संगतम् साप्तपदीनम् उच्यते ।
सञ्जीविनीटीका (मल्लिनाथः) प्रयुक्तेति । आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं मां परमन्यं संप्रतिपत्तुमवगन्तुं नार्हसि । हे संनतगात्रि संनताङ्गि ! `अङ्गगात्रकण्ठेभ्यः` इति वक्तव्यान्ङीप् । यतः कारणान्मनस ईषिभिर्मनीषिभिर्विद्वद्भिः । शकन्ध्वादित्वात्साधुः । सतां संगतं सख्यं सप्तभिः पदैरापद्यत इति साप्तपदीनं सप्तपदोच्चारणसाध्यमुच्यते । ततश्चावयोस्त्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः । `साप्तदीनं सख्यम्` इति निपातनात्साधु
Summary AI "O slender lady, you should not consider me, to whom you yourself have shown special honor, a stranger. Because the wise say that friendship with the virtuous is formed by taking just seven steps or speaking seven words together."
सारांश AI मैंने आपका विशेष सत्कार प्राप्त किया है, अतः मुझे पराया न समझें। विद्वान कहते हैं कि सात पग साथ चलने से ही मित्रता हो जाती है।
पदच्छेदः AI
प्रयुक्तसत्कारविशेषम्प्रयुक्त (प्र√युज्+क्त)सत्कारविशेष (२.१) one to whom special honor has been shown
आत्मनाआत्मन् (३.१) by yourself
not
माम्अस्मद् (२.१) me
परम्पर (२.१) a stranger
संप्रतिपत्तुम्संप्रतिपत्तुम् (सम्+प्रति√पद्+तुमुन्) to consider
अर्हसिअर्हसि (√अर्ह् कर्तरि लट् (परस्मै.) म.पु. एक.) you should
यतःयतः because
सताम्सत् (६.३) of the virtuous
संनतगात्रिसंनत (सम्√नम्+क्त)गात्र (८.१) O one with a slender body
संगतम्संगत (सम्√गम्+क्त, १.१) friendship
मनीषिभिःमनीषिन् (३.३) by the wise
साप्तपदीनम्साप्तपदीन (१.१) formed by seven steps/words
उच्यतेउच्यते (√वच् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is said
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
प्र यु क्त त्का वि शे मा त्म ना
मां रं सं प्र ति त्तु र्ह सि
तः तां सं गा त्रि सं तं
नी षि भिः सा प्त दी मु च्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.