Loading data... On slow networks this could take a few minutes.
100%

मनीषिताः सन्ति गृहेऽपि देवता-
स्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं
शिरीशपुष्पं न पुनः पतत्रिणः ॥

अन्वयः AI वत्से! गृहे अपि मनीषिताः देवताः सन्ति । क्व तपः क्व च तावकम् वपुः? पेलवम् शिरीशपुष्पम् भ्रमरस्य पदम् सहेत, पुनः पतत्रिणः पदम् न सहेत ।
सञ्जीविनीटीका (मल्लिनाथः) मनीषिता इति ॥ हे वत्से ! मनस ईषिता इष्टा मनीषिताः । शकन्ध्वादित्वात्साधुः । देवताः शच्यादयो गृहेषु सन्ति । त्वं तामाराधयेति शेषः । तपः क्व तवेदं तावकम् । `युष्मदस्मदोरन्यतरस्यां खञ्च` इत्यण्प्रत्ययः । `तवकममकावेकवचन` इति तवकादेशः । वपुश्च क्व । तथाहि । पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत । पतत्त्रिणः पुनः पक्षिणस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योपभोगभोग्यं ते वपुर्न दारुणतपःक्षममित्यर्थः । अत्र द्दष्टान्तालंकारः
Summary AI "My child, there are desired deities even at home. Where is harsh penance, and where is your delicate body? A delicate Shirisha flower can bear the foot of a bee, but not that of a bird."
सारांश AI मेना ने कहा कि घर में भी देवता हैं, तुम्हारी सुकुमार देह तपस्या के योग्य नहीं है। शिरीष का फूल भ्रमर के भार को सह सकता है, पक्षी के भार को नहीं।
पदच्छेदः AI
मनीषिताःमनीषित (१.३) Desired
सन्तिसन्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are
गृहेगृह (७.१) at home
अपिअपि also
देवताःदेवता (१.३) deities
तपःतपस् (१.१) Penance
क्वक्व where
वत्सेवत्सा (८.१) O child
क्वक्व where
and
तावकम्तावक (१.१) your
वपुःवपुस् (१.१) body
पदम्पद (२.१) the foot
सहेतसहेत (√सह् कर्तरि विधिलिङ् (आत्मने.) प्र.पु. एक.) can bear
भ्रमरस्यभ्रमर (६.१) of a bee
पेलवम्पेलव (१.१) delicate
शिरीशपुष्पम्शिरीशपुष्प (१.१) Shirisha flower
not
पुनःपुनर् but
पतत्रिणःपतत्रिन् (६.१) of a bird
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नी षि ताः न्ति गृ हे ऽपि दे ता
स्त पः क्व त्से क्व ता कं पुः
दं हे भ्र स्य पे वं
शि री पु ष्पं पु नः त्रि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.