यदुच्यते पार्वति पापवृत्तये
न रूपमित्यव्यभिचारि तद्वचः ।
तथा हि ते शीलमुदारदर्शने
तपस्विनामप्युपदेशतां गतम् ॥

अन्वयः AI पार्वति, रूपम् पाप-वृत्तये न (भवति) इति यत् वचः उच्यते, तत् अव्यभिचारि । उदार-दर्शने, तथा हि ते शीलम् तपस्विनाम् अपि उपदेशताम् गतम् ।
सञ्जीविनीटीका (मल्लिनाथः) यदिति । हे पार्वति ! रुपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवतीति यदुच्यते । लोकैरिति शेषः । तद्वचो न व्यभिचरति न स्खलतीत्यव्यभिचारि सत्यम् । `यत्राकृतिस्तत्र गुणाः` `न सुरुपाः पापसमाचारा भवन्ति` इत्यादयो लोकवादा न विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते-तथाहि । हे उदारदर्शने आयताक्षि ! सुरूपे इत्यर्थः । अथवोन्नतज्ञाने । विवेकवतीत्यर्थः । ते तव शीलं सद्वृत्तम् । `शीलं स्वभावे सद्वृत्ते` इत्यमरः (अमरकोशः ३.३.२०९ ) । तपस्विनामप्युपदिश्यतेऽनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम् । मुनयोऽपि, त्वां वीक्ष्य स्ववृत्तै प्रवर्तन्त इति भावः
Summary AI "O Parvati, the saying that beauty does not lead to a sinful life is proven true in your case. O one of noble appearance, for so it is that your character has become a model even for ascetics."
सारांश AI हे पार्वती! 'रूप पाप के लिए नहीं होता' यह बात सत्य है, क्योंकि आपका श्रेष्ठ आचरण तपस्वियों के लिए भी शिक्षाप्रद हो गया है।
पदच्छेदः AI
यत्यद् (१.१) that which
उच्यतेउच्यते (√वच् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is said
पार्वतिपार्वती (८.१) O Parvati
पापवृत्तयेपापवृत्ति (४.१) for a sinful way of life
not
रूपम्रूप (१.१) beauty
इतिइति thus
अव्यभिचारिनञ्व्यभिचारिन् (१.१) unfailing
तत्तद् (१.१) that
वचःवचस् (१.१) saying
तथातथा for so
हिहि it is
तेयुष्मद् (६.१) your
शीलम्शील (१.१) character
उदारदर्शनेउदारदर्शन (८.१) O one of noble appearance
तपस्विनाम्तपस्विन् (६.३) for ascetics
अपिअपि even
उपदेशताम्उपदेशता (२.१) the state of being a model
गतम्गत (√गम्+क्त, १.१) has become
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
दु च्य ते पा र्व ति पा वृ त्त ये
रू मि त्य व्य भि चा रि द्व चः
था हि ते शी मु दा र्श ने
स्वि ना प्यु दे तां तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.