अपि प्रसन्नं हरिणेषु ते मनः
करस्थदर्भप्रणयापहारिषु ।
य उत्पलाक्षि प्रचलैर्विलोचनै-
स्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥

अन्वयः AI उत्पल-अक्षि, कर-स्थ-दर्भ-प्रणय-अपहारिषु हरिणेषु ते मनः अपि प्रसन्नम्? ये प्रचलैः विलोचनैः तव अक्षि-सादृश्यम् इव प्रयुञ्जते ।
सञ्जीविनीटीका (मल्लिनाथः) अपीति । करस्थान्दर्भान्प्रणयेन स्नेहेनापहरन्तीति ते तथोक्तेषु । सापराधेष्विति भावः । `करस्थदर्भप्रणयापराधिषु` इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु हरिणेषु विषये ते मनः प्रसन्नमपि ? न क्षुभितं किम् । सापराधेध्वपि न कोपितव्यं तपस्विभिरिति भावः । हे उत्पलाक्षि, ये हरिणाः प्रचलैश्चञ्चलैर्विलोचनैर्नेत्रैस्तवाक्षिसादृश्यं प्रयुञ्जत इवाभिनयन्तीव । प्रसन्नत्वान्मृगनेत्राणि त्वन्नयनैः साम्यमुपयान्तीति भावः । `उत्पलक्षेपचलैः` इति पाठान्तर उत्पलकम्पचलैः । भावानयने द्रव्यानयनमिति न्यानेन क्षिप्यमाणोत्पलचलैरित्यर्थः
Summary AI "O lotus-eyed one, is your mind kindly disposed towards the deer, who lovingly snatch kusha grass from your hand? With their restless glances, they seem to imitate the beauty of your own eyes."
सारांश AI क्या वे हिरण आपके प्रति स्नेह रखते हैं जो आपके हाथ से दर्भ खाते हैं? उन हिरणों की चंचल आँखें आपकी आँखों के समान ही दिखती हैं।
पदच्छेदः AI
अपिअपि And
प्रसन्नम्प्रसन्न (प्र√सद्+क्त, १.१) pleased
हरिणेषुहरिण (७.३) towards the deer
तेयुष्मद् (६.१) your
मनःमनस् (१.१) mind
करस्थदर्भप्रणयापहारिषुकरस्थदर्भप्रणयअपहारिन् (७.३) who lovingly snatch the kusha grass from your hand
येयद् (१.३) who
उत्पलाक्षिउत्पलअक्षि (८.१) O lotus-eyed one
प्रचलैःप्रचल (३.३) with their restless
विलोचनैःविलोचन (३.३) eyes
तवयुष्मद् (६.१) your
अक्षिसादृश्यम्अक्षिसादृश्य (२.१) the likeness of (your) eyes
इवइव as if
प्रयुञ्जतेप्रयुञ्जते (प्र√युज् कर्तरि लट् (आत्मने.) प्र.पु. बहु.) they show
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पि प्र न्नं रि णे षु ते नः
स्थ र्भ प्र या हा रि षु
त्प ला क्षि प्र लै र्वि लो नै
स्त वा क्षि सा दृ श्य मि प्र यु ञ्ज ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.