Loading data... On slow networks this could take a few minutes.
100%

अपि त्वदावर्जितवारिसंभृतं
प्रवालमासामनुबन्धि वीरुधाम् ।
चिरोज्झितालक्तकपाटलेन ते
तुलां यदारोहति दन्तवाससा ॥

अन्वयः AI अपि आसाम् वीरुधाम् त्वत्-आवर्जित-वारि-संभृतम् अनुबन्धि प्रवालम्, चिर-उज्झित-अलक्तक-पाटलेन ते दन्त-वाससा तुलाम् आरोहति यत्?
सञ्जीविनीटीका (मल्लिनाथः) अपीति । त्वयावर्जितेन सिक्तेन वारिणा संभृतं जनितमासां वीरुधां लतानां प्रवाल पल्लवमनुबन्ध्यप्यनुस्यूतं किम् । यत्प्रवालं चिरोज्झितश्चिरकालत्यक्तो लाक्षारागो येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्तकपाटलेन ते तव दन्तवाससाधरेण । `ओष्ठाधरौ तु रदनच्छदौ दशनवाससी` इत्यमरः (अमरकोशः २.६.९१ ) । तुलां साम्यमारोहति । गच्छतीत्यर्थः । अत्र तुलाशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि `तुल्यार्थैरतुलोपमाभ्यामि`- ति न तृतीयाप्रतिषेधस्तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति
Summary AI "And do the new shoots of these creepers, nourished by the water you pour, attain a continuous growth that rivals the redness of your lip, which, though you have long given up lac-dye, still retains its crimson hue?"
सारांश AI क्या आपके द्वारा सींची गई लताओं के पल्लव बढ़ रहे हैं? वे पल्लव आपके उन होठों की समानता करते हैं जिन पर अब रंग नहीं लगा है।
पदच्छेदः AI
अपिअपि And
त्वदावर्जितवारिसंभृतम्त्वद्आवर्जित (आ√वृज्+क्त)वारि–संभृत (सम्√भृ+क्त, १.१) nourished by water poured by you
प्रवालम्प्रवाल (१.१) the sprout
आसाम्इदम् (६.३) of these
अनुबन्धिअनुबन्धिन् (अनु√बन्ध्+णिनि, १.१) continuously growing
वीरुधाम्वीरुध् (६.३) creepers
चिरोज्झितालक्तकपाटलेनचिरउज्झित (उद्√उझ्झ्+क्त)अलक्तकपाटल (३.१) with (your lower lip) which is red like lac-dye though long abandoned
तेयुष्मद् (६.१) your
तुलाम्तुला (२.१) comparison
यत्यत् that
आरोहतिआरोहति (आ√रुह् कर्तरि लट् (परस्मै.) प्र.पु. एक.) it attains
दन्तवाससादन्तवासस् (३.१) with your lip
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पि त्व दा र्जि वा रि सं भृ तं
प्र वा मा सा नु न्धि वी रु धाम्
चि रो ज्झि ता क्त पा ले ते
तु लां दा रो ति न्त वा सा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.