Loading data... On slow networks this could take a few minutes.
100%

अपि क्रियार्थं सुलभं समित्कुशं
जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे
शरीरमाद्यं खलु धर्मसाधनम् ॥

अन्वयः AI अपि ते क्रिया-अर्थम् समित्-कुशम् सुलभम्? अपि जलानि स्नान-विधि-क्षमाणि? अपि स्व-शक्त्या तपसि प्रवर्तसे? शरीरम् खलु आद्यम् धर्म-साधनम् ।
सञ्जीविनीटीका (मल्लिनाथः) अपीति । अत्रापिशब्दः प्रश्ने । क्रियार्थ होमादिकर्मनुष्ठानार्थम् । समिधश्च कुशाश्च समित्कुशम् । `जातिरप्राणिनाम्` (अष्टाध्यायी २.४.६ ) इति द्वन्द्वैकवद्भावः । सुलभमपि सुलभं कच्चित् । जलानि ते तव स्नानविधिक्षमाणि स्नानक्रियायोग्यान्यपि कच्चित् । किञ्च स्वशक्त्या निजसामर्थ्यानुसारेण तपसि प्रवर्तसेऽपि । देहमपीडयित्वा तपश्चरसि कच्चिदित्यर्थः । युक्तं च नामैतत् । खलु यस्माच्छरीमाद्यं धर्मसाधनम् । धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहिभिः साध्यते तेषु च वपुरेव मुख्यं साधनम् । सति देहे धर्मार्थकाममोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते । अतएव `सततमात्मानमेव गोपायीत` इति श्रुतिः
Summary AI "Are sacrificial fuel and kusha grass easily available for your rituals? Is the water suitable for bathing? Are you performing your penance according to your strength? For indeed, the body is the primary instrument for practicing righteousness."
सारांश AI उन्होंने पूछा कि क्या पूजा और स्नान के लिए सामग्री सुलभ है? तप अपनी शक्ति अनुसार ही करें, क्योंकि शरीर ही धर्म का प्रथम साधन है।
पदच्छेदः AI
अपिअपि Is it that...?
क्रियार्थम्क्रियाअर्थ (२.१) for the purpose of rituals
सुलभम्सुलभ (१.१) easily available
समित्कुशम्समित्कुश (१.१) sacrificial fuel and kusha grass
जलानिजल (१.३) waters
अपिअपि also
स्नानविधिक्षमाणिस्नानविधिक्षम (१.३) suitable for the rite of bathing
तेयुष्मद् (४.१) for you
अपिअपि further
स्वशक्त्यास्वशक्ति (३.१) according to your own strength
तपसितपस् (७.१) in penance
प्रवर्तसेप्रवर्तसे (प्र√वृत् कर्तरि लट् (आत्मने.) म.पु. एक.) are you engaging
शरीरम्शरीर (१.१) the body
आद्यम्आद्य (१.१) the primary
खलुखलु indeed
धर्मसाधनम्धर्मसाधन (१.१) instrument for righteousness
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पि क्रि या र्थं सु भं मि त्कु शं
ला न्य पि स्ना वि धि क्ष मा णि ते
पि स्व क्त्या सि प्र र्त से
री मा द्यं लु र्म सा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.