Loading data... On slow networks this could take a few minutes.
100%

तमातिथेयी बहुमानपूर्वया
सपर्यया प्रत्युदियाय पार्वती ।
भवन्ति साम्येऽपि निविष्टचेतसां
वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥

अन्वयः AI आतिथेयी पार्वती तम् बहुमान-पूर्वया सपर्यया प्रति-उदियाय । निविष्ट-चेतसाम् साम्ये अपि वपुः-विशेषेषु क्रियाः अति-गौरवाः भवन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) तमिति । अतिथिषु साध्व्यातिथेयी । `पथ्यतिथी-` त्यादिना ढञ्प्रत्ययः । `टिढ्ढाणञि`-त्यादिना ङीप् । पार्वती तं ब्रह्मचारिणं बहुमानपूर्वया । बहुमानः पूर्वो यस्यास्तया । गौरवपूर्वयेत्यर्थः । सपर्ययार्चया `सपर्यार्चार्हणाः समाः` इत्यमरः (अमरकोशः २.७.३७ ) । प्रत्युदियाय प्रत्युज्जगाम । कथं समानेऽपि तस्यास्तदृशी प्रतिपत्तिरत आह-साम्ये सत्यपि निविष्टचेतसां स्थरचित्तानां वपुर्विशेषेषु व्यक्तिविशेषेष्वतिशयितं गौरवं यासु ता अतिगौरवसहिताः क्रियाश्चेष्टा भवन्ति । प्रवर्तन्त । इत्यर्थः । साधवो न साम्याभिनिवेशिन इति भावः
Summary AI The hospitable Parvati received him with worship offered with great respect. For, even when the virtuous regard all with equanimity, their actions towards distinguished persons are especially respectful.
सारांश AI पार्वती ने आदरपूर्वक अतिथि सत्कार से उनका स्वागत किया। महापुरुषों के प्रति आदर का भाव स्थिर चित्त वाले लोगों का स्वाभाविक गुण है।
पदच्छेदः AI
तम्तद् (२.१) him
आतिथेयीआतिथेयी (१.१) hospitable
बहुमानपूर्वयाबहुमानपूर्व (३.१) with great respect
सपर्ययासपर्या (३.१) with worship
प्रत्युदियायप्रत्युदियाय (प्रति+उद्√इ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) received
पार्वतीपार्वती (१.१) Parvati
भवन्तिभवन्ति (√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are
साम्येसाम्य (७.१) in equality
अपिअपि even
निविष्टचेतसाम्निविष्ट (नि√विश्+क्त)चेतस् (६.३) of the virtuous
वपुर्विशेषेषुवपुस्विशेष (७.३) towards distinguished persons
अतिगौरवाःअतिगौरव (१.३) especially respectful
क्रियाःक्रिया (१.३) actions
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
मा ति थे यी हु मा पू र्व या
र्य या प्र त्यु दि या पा र्व ती
न्ति सा म्ये ऽपि नि वि ष्ट चे सां
पु र्वि शे षे ष्व ति गौ वाः क्रि याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.