स्वयंविशीर्णद्रुमपर्णवृत्तिता
परा हि काष्ठा तपसस्तया पुनः ।
तदप्यपाकीर्णमतः प्रियंवदां
वदन्त्यपर्णेति च तां पुराविदः ॥

अन्वयः AI स्वयं-विशीर्ण-द्रुमपर्ण-वृत्तिता तपसः परा काष्ठा हि । पुनः तया तत् अपि अपाकीर्णम् । अतः पुराविदः प्रियंवदाम् ताम् अपर्णा इति च वदन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) स्वयमिति । स्वयं विशीर्णानि स्वतश्च्युतानि द्रुमपर्णान्येव वृत्तिर्जीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्ठा परमुत्कर्षो हि । `काष्ठोत्कर्षे स्थितौ दिशि` इत्यमरः (अमरकोशः ३.३.४७ ) । तया देव्या पुनस्तत्पर्णवर्तनमप्यपाकीर्णमपाकृतम् । अतः पर्णापाकरणाद्धेतोः । प्रियं वदतीति प्रियंवदा । `प्रियवशे वदः खच्` (अष्टाध्यायी ३.२.३८ ) इति खच् प्रत्ययः । `अरुद्विषदजन्तस्य मुम्` इति मुमागमः । तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणसमये अविद्यमानं पर्णभक्षणं यस्याः सापर्णेति वदन्ति । नामान्तरसमुच्चयार्थश्चाकारः । अत्र`अपर्णाम्` इत्यपपाठः इति शब्दाभिहितद्वितीयानुपपत्तेः । यथाह वामनः- `निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्` इति । स्वयं प्रियंवदाः परेशामपि प्रियवादभाजनानि भवन्तीति भावः
Summary AI Subsisting on self-fallen tree leaves is indeed the highest stage of penance. But she gave up even that. Therefore, the ancient sages call the sweet-spoken one "Aparna," meaning the one who does not even eat leaves.
सारांश AI तपस्या की पराकाष्ठा स्वयं गिरे पत्तों को खाना है, पर पार्वती ने उसे भी छोड़ दिया। इसलिए उन्हें 'अपर्णा' के नाम से जाना जाता है।
पदच्छेदः AI
स्वयंविशीर्णद्रुमपर्णवृत्तितास्वयम्विशीर्ण (वि√शॄ+क्त)द्रुमपर्णवृत्तिता (१.१) the state of subsisting on self-fallen tree leaves
परापर (१.१) the highest
हिहि indeed
काष्ठाकाष्ठा (१.१) limit
तपसःतपस् (६.१) of penance
तयातद् (३.१) by her
पुनःपुनर् further
तत्तद् (१.१) that
अपिअपि also
अपाकीर्णम्अपाकीर्ण (अप+आ√कॄ+क्त, १.१) was given up
अतःअतः therefore
प्रियंवदाम्प्रियम्वद (२.१) the sweet-spoken one
वदन्तिवदन्ति (√वद् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they call
अपर्णाअपर्ण (१.१) Aparna (the one without leaves)
इतिइति thus
and
ताम्तद् (२.१) her
पुराविदःपुरस्विद् (१.३) the ancient sages
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
स्व यं वि शी र्ण द्रु र्ण वृ त्ति ता
रा हि का ष्ठा स्त या पु नः
प्य पा की र्ण तः प्रि यं दां
न्त्य र्णे ति तां पु रा वि दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.