निनाय सात्यन्तहिमोत्किरानिलाः
सहस्यरात्रीरुदवासतत्परा ।
परस्पराक्रन्दिनि चक्रवाकयोः
पुरो वियुक्ते मिथुने कृपावती ॥

अन्वयः AI कृपावती सा उदवासतत्परा सती, परस्पराक्रन्दिनि वियुक्ते चक्रवाकयोः मिथुने पुरः (विद्यमाने सति) अत्यन्तहिमोत्किरानिलाः सहस्यरात्रीः निनाय ।
सञ्जीविनीटीका (मल्लिनाथः) निनायेति । सा पार्वती । उत्किरन्ति क्षिपन्तीत्युत्किराः । `इगुपधज्ञा-` इत्यादिना कः । अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पौषरात्रीः । `पौषे तैषसहस्यौ द्वौ` इत्यमरः (अमरकोशः १.४.१६ ) । उदके वास उदवासः `पेषंवासवाहनधिषु च` (अष्टाध्यायी ६.३.५८ ) इत्युदादेशः । उदवासे तत्परा आसक्ता तथा परस्परमाक्रन्दिन्यन्योन्यमाक्रोशिनि पुरोऽग्रे वियुक्ते विरहिणि । वियोगं प्राप्त इति यावत् । चक्रवाकी च चक्रवाकश्च चक्रवाकौ तयोश्चक्रवाकयोर्मिथुने द्वन्द्वे कृपावती सती निनाय । दुःखिषु कृपालुत्वं महतां स्वभाव इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः । `अप्सु वासस्तु हेमन्ते क्रमशो वर्धयेत्तपः` । इति मनुः
Summary AI The compassionate Parvati, dedicated to living outdoors, passed the nights of the winter month Pausha, filled with winds scattering extreme snow, in the presence of a separated pair of Chakravaka birds wailing for each other.
सारांश AI बर्फीली हवाओं वाली शीतकालीन रातों में वे जल में रहकर तप करती थीं। वे विरह में विलाप करते चक्रवाक जोड़ों के प्रति अत्यंत दयालु थीं।
पदच्छेदः AI
निनायनिनाय (√नी कर्तरि लिट् (परस्मै.) प्र.पु. एक.) she passed
सातद् (१.१) she
अत्यन्तहिमोत्किरानिलाःअत्यन्तहिम–उत्किरत्अनिल (२.३) with winds scattering extreme snow
सहस्यरात्रीःसहस्यरात्रि (२.३) the nights of the month of Pausha
उदवासतत्पराउदवासतत्परा (१.१) devoted to living outdoors
परस्पराक्रन्दिनिपरस्परआक्रन्दिन् (७.१) wailing for each other
चक्रवाकयोःचक्रवाक (६.२) of the two chakravaka birds
पुरःपुरस् in front
वियुक्तेवियुक्त (वि√युज्+क्त, ७.१) separated
मिथुनेमिथुन (७.१) the pair
कृपावतीकृपावत् (१.१) the compassionate one
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि ना सा त्य न्त हि मो त्कि रा नि लाः
स्य रा त्री रु वा त्प रा
स्प रा क्र न्दि नि क्र वा योः
पु रो वि यु क्ते मि थु ने कृ पा ती
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.