Loading data... On slow networks this could take a few minutes.
100%

स्थिताः क्षणं पक्ष्मसु ताडिताधराः
पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे
चिरेण नाभिं प्रथमोदबिन्दवः ॥

अन्वयः AI प्रथम-उद-बिन्दवः क्षणम् पक्ष्मसु स्थिताः, ताडित-अधराः भूत्वा, पयोधर-उत्सेध-निपात-चूर्णिताः भूत्वा, तस्याः वलीषु स्खलिताः भूत्वा, चिरेण नाभिम् प्रपेदिरे ।
सञ्जीविनीटीका (मल्लिनाथः) स्थिता इति ॥ उदकस्य बिन्दव उदबिन्दवः । `मन्थौदन-` इत्यादिनोदकशब्दस्योदादेशः । प्रथम उदबिन्दवः । प्रथमविशेषणाद्विन्दूनां विरलत्वं बहुवचनान्नातिविरलत्वं च गम्यते । तथा च चिरत्वनाभ्यन्तरगमनयोर्निर्वाहः । तस्याः पार्वत्याः पक्ष्मसु नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः । स्थिता इत्यनेन पक्ष्मणां सान्द्रत्वं क्षणमिति स्नैग्ध्यं च गम्यते । अनन्तरं ताडितो व्यथितोऽधर ओष्ठो यैस्तैस्तथोक्तैः एतेनाधरस्य मार्दवं गम्यते । ततः पयोधरयोः स्तनयोरुत्सेध उपरिभागे निपातेन पतनेन चूर्णिता जर्जरिताः कुचकाठिन्यादिति भावः । तदनु वलीषूदररेखासु स्खलिताः । निम्रोन्नतत्वादिति भावः । इत्थं चिरेण न तु शीघ्रम् । प्रतिबन्धबाहुल्यादिति भावः । नाभिं प्रपेदिरे प्रविष्टा न तु निर्जग्मुः । एतेन नाभेर्गाम्भीर्यं गम्यते । अत्र प्रतिपदमर्थवत्त्वात्परिकरालंकारः
Summary AI The first drops of rain, after pausing for a moment on her eyelashes, striking her lower lip, and then shattering upon falling on the prominence of her breasts, trickled down the folds of her abdomen and slowly reached her navel.
सारांश AI वर्षा की पहली बूंदें पलकों पर रुकीं, अधरों से टकराकर टूटीं, स्तनों के उभार से बिखरकर वलियों से फिसलती हुई देर से नाभि तक पहुँचीं।
पदच्छेदः AI
स्थिताःस्थित (√स्था+क्त, १.३) having paused
क्षणम्क्षण (२.१) for a moment
पक्ष्मसुपक्ष्मन् (७.३) on her eyelashes
ताडिताधराःताडित (√तड्+क्त)अधर (१.३) having struck her lower lip
पयोधरोत्सेधनिपातचूर्णिताःपयोधरउत्सेधनिपातचूर्णित (√चूर्ण्+क्त, १.३) shattered by falling on the prominence of her breasts
वलीषुवलि (७.३) on the folds of her abdomen
तस्याःतद् (६.१) her
स्खलिताःस्खलित (√स्खल्+क्त, १.३) having trickled down
प्रपेदिरेप्रपेदिरे (प्र√पद् कर्तरि लिट् (आत्मने.) प्र.पु. बहु.) reached
चिरेणचिर (३.१) slowly
नाभिम्नाभि (२.१) the navel
प्रथमोदबिन्दवःप्रथमउदबिन्दु (१.३) The first drops of rain
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
स्थि ताः क्ष णं क्ष्म सु ता डि ता राः
यो रो त्से नि पा चू र्णि ताः
ली षु स्याः स्ख लि ताः प्र पे दि रे
चि रे ना भिं प्र मो बि न्द वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.