तथाभितप्तं सवितुर्गभस्तिभि-
र्मुखं तदीयं कमलश्रियं दधौ ।
अपाङ्गयोः केवलमस्य दीर्घयोः
शनैःशनैः श्यामिकया कृतं पदम् ॥

अन्वयः AI सवितुः गभस्तिभिः तथा अभितप्तम् तदीयम् मुखम् कमल-श्रियम् दधौ । केवलम् अस्य दीर्घयोः अपाङ्गयोः शनैः शनैः श्यामिकया पदम् कृतम् ।
सञ्जीविनीटीका (मल्लिनाथः) तथेति ॥ सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूवोक्तप्रकारेणातितप्तं संतप्तं तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न म्लायति प्रत्युत विकसति तथा तदीयं मुखमासीदिति भावः । किन्त्वस्य मुखस्य दीर्धयोरपाङ्गयोः केवलं नेत्रान्तयोरेव शनैर्मन्दंमन्दं श्यामिकया कालिम्ना पदं स्थानं कृतम् । तयोः सौकुमार्यादित्यर्थः
Summary AI Her face, thus scorched by the rays of the sun, assumed the beauty of a lotus. Only at the long outer corners of her eyes did a darkness gradually make its place.
सारांश AI सूर्य की किरणों से तपा हुआ पार्वती का मुख कमल की शोभा धारण करने लगा। उनकी लंबी आँखों के कोनों में धीरे-धीरे श्यामता आ गई।
पदच्छेदः AI
तथातथा Thus
अभितप्तम्अभितप्त (अभि√तप्+क्त, १.१) scorched
सवितुःसवितृ (६.१) of the sun
गभस्तिभिःगभस्ति (३.३) by the rays
मुखम्मुख (१.१) face
तदीयम्तदीय (१.१) Her
कमलश्रियम्कमलश्री (२.१) the beauty of a lotus
दधौदधौ (√धा कर्तरि लिट् (परस्मै.) प्र.पु. एक.) assumed
अपाङ्गयोःअपाङ्ग (६.२) at the outer corners of the eyes
केवलम्केवलम् Only
अस्यइदम् (६.१) of it (the face)
दीर्घयोःदीर्घ (६.२) long
शनैःशनैस् gradually
शनैःशनैस् gradually
श्यामिकयाश्यामिका (३.१) by a darkness
कृतम्कृत (√कृ+क्त, १.१) was made
पदम्पद (१.१) a place
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था भि प्तं वि तु र्ग स्ति भि
र्मु खं दी यं श्रि यं धौ
पा ङ्ग योः के स्य दी र्घ योः
नैः नैः श्या मि या कृ तं दम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.