Loading data... On slow networks this could take a few minutes.
100%

इयेष सा कर्तुमवन्ध्यरूपतां
समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं
तथाविधं प्रेम पतिश्च तादृशः ॥

अन्वयः AI सा तपोभिः समाधिम् आस्थाय आत्मनः रूपताम् अवन्ध्याम् कर्तुम् इयेष । अन्यथा तथाविधम् प्रेम तादृशः पतिः च इति द्वयम् कथम् वा अवाप्यते?
सञ्जीविनीटीका (मल्लिनाथः) इयेषेति ॥ सा पार्वती समाधिमेकाग्रतामास्थायावलम्ब्यतपोभिर्वक्ष्यमाणनियमैः करणभूतैरात्मनः स्वस्याबन्ध्यरुपतां सफलसौन्दर्यं कर्तुमियेषेच्छति स्म । तपसा शिवं वशीकर्तुमुद्युक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्‌द्वयमवाप्यते । किं तद्द्वयम् ? तथाभूता विधा प्राकारो यस्य तत्तथाविधं प्रेम स्नेहः येनार्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च । यो मृत्युंजय इति भावः । द्वयमेव खलु स्त्रीणामपेक्षितं यद्भर्तृवाल्लभ्यं जीवद्भर्तृकत्वं चेति । तच्च तपश्चर्यैकसाध्यमिति निश्चिकायेत्यर्थः । अत्र मनुः- `यद् दुष्करं यद् दुरापं यद् दुर्गं यच्च दुस्तरम् । तत्सर्व तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥` इति
Summary AI She wished to make her beauty fruitful by undertaking austerities and deep meditation. For how else could both be obtained: such profound love and such a husband?
सारांश AI पार्वती ने तपस्या के माध्यम से अपने रूप को सफल बनाने का संकल्प लिया। शिव जैसे पति और उनके अगाध प्रेम को तपस्या के बिना प्राप्त करना संभव नहीं था।
पदच्छेदः AI
इयेषइयेष (√इष् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) She wished
सातद् (१.१) she
कर्तुम्कर्तुम् (√कृ+तुमुन्) to make
अवन्ध्यरूपताम्अवन्ध्यरूपता (२.१) her beauty fruitful
समाधिम्समाधि (२.१) deep meditation
आस्थायआस्थाय (आ√स्था+ल्यप्) having undertaken
तपोभिःतपस् (३.३) by austerities
आत्मनःआत्मन् (६.१) her own
अवाप्यतेअवाप्यते (अव√आप् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is obtained
वावा or
कथम्कथम् how
अन्यथाअन्यथा otherwise
द्वयम्द्वय (१.१) the pair
तथाविधम्तथाविध (१.१) such
प्रेमप्रेमन् (१.१) love
पतिःपति (१.१) husband
and
तादृशःतादृश (१.१) such a
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ये सा र्तु न्ध्य रू तां
मा धि मा स्था पो भि रा त्म नः
वा प्य ते वा न्य था द्व यं
था वि धं प्रे ति श्च ता दृ शः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.