तथा समक्षं दहता मनोभवं
पिनाकिना भग्नमनोरथा सती ।
निनिन्द रूपं हृदयेन पार्वती
प्रियेषु सौभाग्यफला हि चारुता ॥

अन्वयः AI तथा समक्षम् मनोभवम् दहता पिनाकिना भग्नमनोरथा सती पार्वती हृदयेन रूपम् निनिन्द । हि चारुता प्रियेषु सौभाग्यफला भवति ।
सञ्जीविनीटीका (मल्लिनाथः) तथेति ॥ पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणाक्ष्णोः समीपे समक्षं पुरतः । `अव्ययं विभक्तिसमीपसमृद्धी-` त्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पिनाकिनेश्वरेण भग्नः खण्डितो मनोरथोऽभिलाषो यस्याः सा तथोक्ता सती हृदयेन मनसा रुपं सौन्दर्यं निनिन्द । `धिङ् मे रुपं यद्धरमनोहरणाय नालमिति गर्हितवतीत्यर्थः` । युक्तं चैतदित्याह-तथाहि । चारुता सैन्दर्यं प्रियेषु विषये सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते । नो चेद्विफलं तदिति भावः । अस्मिन्सर्गे वंशस्थं वृत्तम्- `जतौ तु वंशस्थमुदीरितं जरौ` इति लक्षणात्
Summary AI When Pinakin (Shiva) burned Kamadeva in her presence, Parvati, her desires shattered, inwardly condemned her own beauty. For indeed, the true fruit of beauty is the favor it finds in the eyes of the beloved.
सारांश AI शिव द्वारा कामदेव को भस्म करने पर पार्वती का मनोरथ टूट गया। उन्होंने अपने सौंदर्य की निंदा की, क्योंकि सुंदरता की सार्थकता प्रिय का प्रेम प्राप्त करने में ही है।
पदच्छेदः AI
तथातथा Thus
समक्षम्समक्षम् in her presence
दहतादहत् (√दह्+शतृ, ३.१) by the one burning
मनोभवम्मनोभव (२.१) the mind-born (Kamadeva)
पिनाकिनापिनाकिन् (३.१) by Pinakin (Shiva)
भग्नमनोरथाभग्न (√भञ्ज्+क्त)मनोरथ (१.१) she whose desires were shattered
सतीसत् (√अस्+शतृ, १.१) being
निनिन्दनिनिन्द (√निन्द् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) condemned
रूपम्रूप (२.१) (her) beauty
हृदयेनहृदय (३.१) with her heart
पार्वतीपार्वती (१.१) Parvati
प्रियेषुप्रिय (७.३) towards the beloved
सौभाग्यफलासौभाग्यफल (१.१) that which has good fortune as its fruit
हिहि for
चारुताचारुता (१.१) loveliness
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था क्षं ता नो वं
पि ना कि ना ग्न नो था ती
नि नि न्द रू पं हृ ये पा र्व ती
प्रि ये षु सौ भा ग्य ला हि चा रु ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.